संस्कृत-शब्दकोशः

वितान वितानमूलक

वितानक

शब्दकल्पद्रुमः

वितानकः || पुं, (वितान इव प्रतिकृतिः । वितान + कन् ।)
माडवृक्षः । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

वितानकः || पुं, क्ली, (वितान एव । स्वार्थे कन् ।)
चन्द्रातपः । इति शब्दमाला ॥ (यथा, कथा- सरित्सागरे । ४८ । ९९ । “तदा तैर्मुक्तमन्योन्यं बाणजालं बभौ दिवि । रणलक्ष्म्या तपत्यर्के वितानकमिवाततम् ॥” समूहः । यथा, माघे । ६ । २७ । “अनुययौ विविधोपलकुण्डल- द्युतिवितानकसंवलितांशुकम् ॥”)



Correction: