वाचस्पत्यम्
वित्तेश || पु० ६ त० । कुवेरे ।
शब्दकल्पद्रुमः
वित्तेशः || पुं, (वित्तानामीशः ।)
कुबेरः । यथा, —
“त्वं ब्रह्मा हरिहरसंज्ञितस्त्वमिन्द्रो वित्तेशः पितृपतिरम्बुपः समीरः । सोमोऽग्निर्गगनमहीधरोऽब्धिरूपः किंस्तव्यं सकलतरस्वरूपधाम्नः ॥” इति मार्कण्डेयपुराणे । १०४ । ३७ ॥