संस्कृत-शब्दकोशः

विदग्धता विदत्

विदग्धा

शब्दकल्पद्रुमः

विदग्धा || स्त्री (विदग्ध + टाप् ।)
परकीयान्तर्गत- नायिकाभेदः । यथा । गुप्ताविदग्धालक्षिता- कुलटानुशयानामुदिताप्रभृतीनां परकीयाया- मेवान्तर्भावः । अस्या लक्षणम् । वाक्कौशल- युक्तत्वम् । सा च द्विविधा । वाग्विदग्धा क्रिया- विदग्धा च । प्रथमा यथा, —
“निविडतमतमालमल्लिवल्ली- विचकिलराजिविराजितोपकण्ठे । पथिकसमुचितस्तवाद्य तीव्रे सवितरि तत्र सरित्तटे निवासः ॥” द्वितीया यथा, —
“दासाय भवननाथे वदरीमपनेतुमादिशति । हेमन्ते हरिणाक्षी पयसि कुठारं विनिक्षि- पति ॥” इति रसमञ्जरी ॥



Correction: