संस्कृत-शब्दकोशः

विदथ विदर्भ

विदर

वाचस्पत्यम्

विदर ||‍ न० वि + दॄ—अच् । (फणिमनसा) वृक्षे शब्दर० । भावे अप् २ विदलीकरणे पु० शब्दर० । प्रा० ब० । ३ विगतभये त्रि० ।


शब्दकल्पद्रुमः

विदरं || क्ली (विदीर्य्यतीति । वि + दॄ + अच् ।)
विश्वसारकम् । इति शब्दचन्द्रिका ॥ फणीमनसा इति भाषा ॥ (विदीर्णे, त्रि । यथा, कामन्दकीये नीतिसारे । १९ । १० । ‘अल्पवृक्षोपला च्छिद्रा लतिका विदरा स्थिरा । निःशर्करा च निःपङ्का सापसारा च वारिभूः ॥’)


शब्दकल्पद्रुमः

विदरः || पुं, (वि + दॄ + “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् ।)
विदरणम् । फाटन इति चेरण इति च भाषा । तत्पर्य्यायः । स्फुटनम् २ भिदा ३ । इत्यमरः ॥ दारणम् ४ विदारणम् ५ । इति शब्दरत्नावली ॥



Correction: