संस्कृत-शब्दकोशः

विदर्भजा विदर्भसुभ्रू

विदर्भराज

शब्दकल्पद्रुमः

विदर्भराजः || पुं, (विदर्भानां राजा । “राजाहः- सखिभ्यष्टच् ।” इति टच् ।)
विदर्भदेशाधि- पतिः । तस्य नामान्तरं भीमराजः । यथा, —
“स्मरोपतप्तोऽपि भृशं न स प्रभु- र्विदर्भराजं तनयामयाचत । त्यजन्त्यसून् शर्म्म च मानिनो वरं त्यजन्ति न त्वेकमयाचितव्रतम् ॥ इति पूर्ब्बनैषधे । १ । ५० ॥



Correction: