शब्दकल्पद्रुमः
विदायः || पुं, (विगतो दायः साक्षात्करणादिरूप- ऋणं येन ।)
गमनानुमतिः । यथा, —
“क्षणं वा चम्पकवनं गच्छ वा तिष्ठ सुन्दरि ! । क्षणं गृहञ्च यास्यामि विशिष्टं कार्य्यमस्ति मे । विदायं देहि संप्रीत्या क्षणं मे प्राणवल्लभे ॥” इति ब्रह्मवैवर्त्ते जन्मखण्डे श्रीराधां प्रति श्रीकृष्ण- वाक्यम् ॥