वाचस्पत्यम्
विदारक || पु० वि + दॄ—णिच्—ण्वुल् । १ जलमध्यस्थतरुशिलादौ अमरः । २ विदारणकर्त्तरि त्रि० ३ शुष्कनदादेर्जलधारण- योग्ये गर्त्ते न० सर्वधरेः । ४ जलबन्धके शब्दर० ।
शब्दकल्पद्रुमः
विदारकं || क्ली (विदृणातीति । वि + दॄ + ण्वुल् ।)
वज्रक्षारम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
विदारकः || पुं, (विदृणाति जलयानादीनिति । वि + दॄ + ण्वुल् ।)
जलमध्यस्थिततरुशिलादिः । तत्पर्य्यायः । कूपकः २ । इत्यमरः ॥ जलबन्धकः । इति शब्दरत्नावली ॥ शुष्कनद्यादौ जलाव- स्थानार्थं गर्त्तः । इति सर्व्वधरः ॥ अतएव कूपा इव कूपकाः । कुत्सिताश्च कूपा इति वा । विदारयन्तीति विदारकाः । जलान्तर्गतास्तरु- शिलादयोऽज्ञानाल्लोकादिविदारकाः कूपकाः । इति साञ्झः । बहुत्वमतन्त्रम् । इति भरतः ॥