संस्कृत-शब्दकोशः

विदारिका विदारिन्

विदारिणी

वाचस्पत्यम्

विदारिणी ||‍ स्त्री वि + दॄ—णिनि ङीप् । काश्मर्य्याम् राजनि०


शब्दकल्पद्रुमः

विदारिणी || स्त्री (विदृणातीति । वि + दॄ + णिनिः । ङीप् ।)
काश्मरी । इति राजनिर्घण्टः ॥ (विदारणकर्त्त्री । यथा, कथासरित्सागरे । ५३ । १७१ । “एकानंशे शिवे दुर्गे नारायणि सरस्वति । भद्रकाली महालक्ष्मि सिद्धे रुरुविदारिणि ॥”)



Correction: