वाचस्पत्यम्
विदारी || स्त्री वि + दारि + कर्मणि अच् गौ० ङीष् । १ शाल- पर्ण्याम् । (शालपान) मेदि० । २ मूभिकुष्माण्डे च अमरः “विदारी वातपित्तघ्नी बल्या वृष्या रसायनी” राजव० । ३ कण्ठरोगभेदे भावप्र० “सदाहतोदं श्वयथुं सुताम्ब- मन्तर्गले पूतिविशीर्णमांसम् । पित्तेन विद्यात् वदने विदारीं पार्श्वे विशेषात् स तु येन शेते” स तु पुरुषो येन पार्श्वेन विशेषात् बाहुल्येन शेते तस्मिन् पार्श्वे सा विदारी भवतीत्यर्थः” ।
शब्दकल्पद्रुमः
विदारी || स्त्री (विदारयतीति । वि + दॄ + णिच् + अच् । गौरादित्वात् ङीष् ।)
शालपर्णी । इति मेदिनी ॥ भूमिकुष्माण्डः । तत्पर्य्यायः । क्षीर- शुक्ला २ इक्षुगन्धा ३ क्रोष्ट्री ४ । इत्यमरः ॥ विदारिका ५ स्वादुकन्दा ६ सिता ७ शुक्ला ८ शृगालिका ९ वृष्यकन्दा १० विडाली ११ वृष्यवल्लिका १२ भूकुष्माण्डी १३ स्वादुलता १४ गजेष्टा १५ वारिवल्लभा १६ गन्धफला १७ । अस्या गुणाः । मधुरत्वम् । शीतत्वम् । गुरु- त्वम् । स्निग्धत्वम् । अस्रपित्तनाशित्वम् । कफ- कारित्वम् । पुष्टिबलवीर्य्यविवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ विदारी वातपित्तघ्नी वृष्या बल्या रसायनी इति राजवल्लभः ॥ * ॥
अष्टादश-प्रकारकण्ठरोगान्तर्गत-रोगविशेषः । यथा, अथ विदारीमाह । “सदाहतोदं श्वयथुं सुताम्र- मन्तर्गले पूतिविशीर्णमांसम् । पित्तेन विद्याद्वदने विदारीं पार्श्वं विशेषात् स तु येन शेते ॥” स पुरुषो येन पार्श्वेन विशेषाद्बाहुल्येन शेते तस्मिन् पार्श्वे सा विदारी भवति इत्यर्थः । इति भावप्रकाशः ॥ अस्याश्चिकित्सादि रोहिणी- शब्दे द्रष्टव्यम् ॥