वाचस्पत्यम्
विदित || त्रि० विद—क्त । १ ज्ञाते अमरः २ प्रार्थिते च मेदि० ३ कवौ पु० जटा० । भावे—क्त । ४ विख्यातौ ४ उपगमे शब्दच० ५ ज्ञाने च । तदस्यास्ति अच् । ६ ज्ञातरि त्रि० । “विदितः समाययाविति” किरा० ।
शब्दकल्पद्रुमः
विदितं || त्रि (विद् + क्तः ।)
अवगतम् । इत्य- मरः ॥ (यथा, महाभारते । ७ । २८ । २२ । “सबाणः सधनुश्चाहं ससुरासुरमानुषान् । शक्तो लोकानिमान् जेतुं तच्चापि विदितं तव ॥”)
अर्थितम् । इति मेदिनी । ते, १०९ ॥ उपगमः । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
विदितः || पुं, (विदितं ज्ञानमस्यास्तीति । अर्श- आदित्वात् अच् ।)
कविः । इति जटाधरः ॥ (ज्ञानाश्रये, त्रि । यथा, किराते । १ । १ । “श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् । सवर्णिलिङ्गी विदितः समाययौ यधिष्ठिरं द्बैतवने वनेचरः ॥”