वाचस्पत्यम्
विदिश् || स्त्री विगता दिशौ । दिशोर्मध्ये अग्निनिरृति- वाथ्वीशानकोणचतुष्टये अमरः ।
शब्दकल्पद्रुमः
विदिक् || [श्] स्त्री, (दिग्भ्यां विगता ।)
दिशो- र्मध्यम् । अग्निनिरृतिवाय्वीशानकोणचतुष्टयम् । तत्पर्य्यायः । अपदिशम् २ । इत्यमरः ॥ प्रदिक् ३ । इति जटाधरः ॥ विदिशम् ४ । इति शब्दरत्नावली ॥ कोणः ५ । इति राज- निर्घण्टः ॥ (यथा, भागवते । ४ । १७ । १६ । “सा दिशो विदिशो देवी रोदसी चान्तरं तयोः । धावन्ती तत्र तत्रैनं ददर्शानुद्यतायुधम् ॥”)