संस्कृत-शब्दकोशः

विदिश् विदु

विदीर्ण

शब्दकल्पद्रुमः

विदीर्णः || त्रि (वि + दॄ + क्तः ।)
कृतविदारणः । चेरा इति भाषा । यथा, — पितर ऊचुः । “श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजै- र्दत्तानि तीर्थसमयेऽप्यपिवत्तिलाम्बु । तस्योदरान्नखविदीर्णवपाद्य आर्च्छ- त्तस्मै नमो नृहरयेऽखिलधर्म्मगोप्त्रे ॥” इति श्रीमद्भागवते ७ स्कन्धे ८ अध्यायः ॥ अपि च । “अद्बीपे क्षिपती समस्तजगती सस्तोकशोका- म्बुधौ राधा सम्भृतकाकुराकुलमसौ चक्रे तथा क्रन्दनम् । येन स्यन्दननेमिनिर्म्मितमहासीमन्तदम्भादिदं हा सर्व्वं सहयापि निर्भरमभूद्दूराद्बिदीर्णं भुवा ॥” इत्युज्ज्वलनीलमणिः ॥



Correction: