संस्कृत-शब्दकोशः

विदू विदूरग

विदूर

वाचस्पत्यम्

विदूर ||‍ न० विशिष्टं दूरम् । १ अतिदूरे २ तत्रस्थे पदार्थे त्रि० । “विदूरे केयूरे कुरु” इति सा० द० ३ परि० । ३ वैदूर्य्यमणि- सम्भवस्थाने पु० “विदूरभूमिर्नवमेघशब्दात्” कुमारः ।


शब्दकल्पद्रुमः

विदूरः || त्रि (विशिष्टं दूरं यस्य ।)
अतिदूरस्थ- देशादि । यथा, —
“मासानष्टौ तव जलधरोत्कण्ठया शुष्ककण्ठः सारङ्गोऽसौ युगशतमिव व्यानिनायातिकृ- च्छ्रात् । आस्तां तावन्नवजलकणाभाजनत्वं विदूरे वर्षारम्भप्रथमसमये दारुणो वज्रपातः ॥” इति चातकाष्टकम् ॥ (पर्व्वतविशेषे, पुं । यथा, कुमारे । १ । २४ । “तया दुहित्रा सुतरां सवित्री- स्कुरत्प्रभामण्डलया चकाशे । विदूरभूमिर्नवमेघशब्दा- दुद्भिन्नया रत्नशलाकयेव ॥”)



Correction: