वाचस्पत्यम्
विदूरज || न० विदूरे देशभेदे जायते जन—ड । वैदूर्य्यमणी ।
शब्दकल्पद्रुमः
विदूरजं || क्ली (विदूरे पर्व्वते जायते इति । जन + डः ।) विदूरपर्व्वतजरत्नम् । वैदूर्य्यमणिः । अतिदूरजाते, त्रि । इति केचित् ॥