संस्कृत-शब्दकोशः

विदूराद्रि विदूषण

विदूषक

वाचस्पत्यम्

विदूषक ||‍ पु० विदूषयति वि + द्रष—णिच्—ण्वुल् । १ शृङ्गाररस- सहायभदे २ परनिन्दके त्रि० मेदि० । “शृङ्गारस्य सहाया विटचेटविदूषकाद्याः स्युः । भक्ता नर्मसु निपुणाः कुपितिबधूमानभञ्जनाः शुद्धाः । कुसुम- वसन्ताद्यभिधाः कर्मवपुर्वेशभाषाद्यैः । हास्यकरः, कल- हरतिर्विदूषकः स्यात् स्वकर्मज्ञः” सा० द० ३ व० ।


शब्दकल्पद्रुमः

विदूषकः || त्रि (विदूषयति आत्मानमिति । वि + दूष + णिच् + ण्वुल् ।)
कामुकः । तत्पर्य्यायः । षिड्गः २ व्यलीकः ३ षट्प्रज्ञः ४ काभकेलिः ५ पीठकेलिः ६ पीठमर्द्दः ७ भविलः ८ छिदुरः ९ विटः १० । इति त्रिकाण्डशेषः ॥ चाटुवटुः ११ वासन्तिकः १२ केलिकिलः १३ वैहासिकः १४ प्रहासी १५ प्रीतिदः १६ । इति हेम- चन्द्रः ॥ परनिन्दाकरः । इति मेदिनी । के, २१४ ॥ तत्पर्य्यायः । खलः २ रञ्जकः ३ अभीकः ४ क्रूरः ५ सूचकः ६ कण्टकः ७ नागः ८ मलिनास्यः ९ परद्वेषी १० । इति शब्दमाला ॥ चतुर्धा- नायकान्तर्गतनायकविशेषः । तस्य लक्षणं यथा । अङ्गादिवैकृत्यैर्हास्यकारी विदूषकः । अस्योदाहरणं यथा, —
“आनीय नीरजमुखीं शयनोपकण्ठ- मुत्कण्ठतोऽस्मि कुचकञ्चुकमोचनाय । अत्रान्तरे मुहुरकारि विदूषकेण प्रातस्तनस्तरुणकुक्कुटकण्ठनादः ॥” इति रसमञ्जरी ॥ (अयन्तु शृङ्गारसहायः । यथा, साहित्यदर्पणे । ३ । ७७ । “शृङ्गारस्य सहाया विटचेटविदूषकाद्याः स्युः । भक्ता नर्म्मसु निपुणाः कुपितबघूमानभञ्जनाः शुद्धाः ॥” दूषणकारके, त्रि । यथा, भागवते । ५ । ६ । १० । “येनह वाव कलौ मनुजापसदा देवमाया- विमोहिताः **** ब्रह्मब्राह्मणयज्ञपुरुष- लोकविदूषकाः प्रायेण भविष्यन्ति ॥”)



Correction: