शब्दकल्पद्रुमः
विद्यादाता || [ऋ] त्रि, (विद्यां ददातीति । दा + तृच् ।)
विद्यादानकर्त्ता । यथा, —
“अन्नदाता भयत्राता पत्नीतातस्तथैव च । विद्यादाता जन्मदाता पञ्चैते पितरो नृणाम् ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ अपि च । “न च विद्यासमो बन्धुर्नास्ति कश्चित् गुरोः परः । विद्यादातुः पुत्त्रदारौ तत्समौ नात्र संशयः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः ॥