संस्कृत-शब्दकोशः

विद्यादातृ विद्यादेवी

विद्यादान

वाचस्पत्यम्

विद्यादान ||‍ ग० ६ त० । १ अध्यापने २ पुस्तकादिदाने च । “विद्यादानञ्च अध्यापनेन व्याख्यया विलिख्यार्पणेन च भवतीति ज्यो० त० रघु० । तत्राध्यापनविधि० श्रुतौ यथा “योऽधीत्यार्थिभ्यो विद्यां न प्रयच्छेत् स काको वान्थस्यिन् स्यात् श्रेयसो द्वारमपावृणुयात् अनध्यापने दोषश्चवणात् तस्यावशक्यत्वं गम्यते । “अष्टवर्षं मानवकमुपनयीत तमध्यापयीत” इत्यादिश्रुतौ च अध्यापनाविधिलाभः । व्याख्यानादिविधिलाभस्तु “अज्ञानतिमिरोऽपेठान् सन्दे- हपटलान्वितान् । निरामयान् यः कुरुते शास्त्राञ्जन- शलाकया । इह कीर्त्तिं राजपूजां लभते सद्गतिं च सः” ज्यो० त० । तद्धेतुपुस्तकादिदानञ्चाग्रे वक्ष्यमाणप्रमाणात् तत्र ज्ञानरूपविद्यादानप्रकारः हेमा० दा० वह्निपु० उक्तो यथा “वाजपेयसहस्वस्य सम्यगिष्टस्य यत् फलम् । तत्फलं समवाप्नोति विद्यादानान्न संशयः । तस्वाद्देवालये नित्य धर्मशास्त्रस्य वा श्रुतेः । पठनं कारयेत् राजन्! यदी- च्छेत् धर्ममात्मनः । गोमूहिरण्यवासांसि शयनान्यास- नानि च । प्रत्यहं तेन दत्तानि भवन्ति नृपसत्तम! । धर्माधमौ न जानाति लोकोऽयं विद्यया विना । त- स्मात् सदैव धर्मात्मन्! विद्यादानरतो भवेत् । वेद- शास्त्ररहस्यज्ञो यदि नैव नृपोत्तम! । ततोऽज्ञान- तमोऽन्धस्य कावस्था जगतो भवेत् । ब्रह्मादवः सुराः सर्वे ऋषयो दग्धकिल्विषाः । मनुष्याः पितरश्चैव विद्यादाने प्रतिष्ठिताः । चतुर्युगानां राजेन्द्र! एक- सप्ततिसंख्यया । वेदशास्त्रप्रदः स्वर्गे पूज्यते सुरसत्तमैः । इत्युपक्रमे “दानं विशेसफलदं जगतीह नान्यद् विद्यां विहाय वदनाब्जकृताधिवासाम् । गोभूहिरण्यगज- वाजिरथादि सर्वं तां यच्छतां किमिति भूप! भवेन्न दत्तम्” । तत्रैव नन्दिपु० “अध्यापयेच्छुभान् शिष्यानभि- जातान् सुमेधसः । एवं विद्याप्रदानं हि सर्वदानोत्तमो- त्तमम् । सर्वदा सर्ववर्णानामयं च प्लव उत्तमः । अनेन विधिना दत्त्वा विद्यां पुण्यपरो नरः” । स्वयंविद्यादानासामर्थ्ये आ० त० भविष्यपु० उक्तं यथा “अध्यापकस्य यो वृत्तिं दत्त्वाऽध्यापयति द्विजान् । किं न दत्तं भवेत्तेन धर्मकर्मार्थमिच्छता” । तद्धेतुभूत- पुस्तकादिदानमपि विद्यादानं हेमा० दा० उक्तं यथा नन्दिपु० “विद्या च मुख्या दानानां गुरुतोऽस्य विधिं बुधः । श्रुत्वा विद्याञ्च विधिवत् शुद्धया भाविता ताना । सत्पात्रेभ्यश्च तां दद्यात् विशेषात् गुनाशालिषु। उप योग्यञ्च यद् यस्य तत्तस्य प्रतिपांदयेत्” । ततः पुस्तकलेखन- प्रकारस्तद्दानविधिश्च विस्तरेणोक्तस्तत्र दृश्यः । विद्योपयो- गिद्रव्यादिदानेऽपि विद्यादानं भवति यथोक्तं हेमा० दा० देवीपु० “आत्मवित्तानुसारेण विद्यादानं करोति यः । असाध्यं फलमाप्नोति आद्यतुल्यं न संशयः । स्त्री तथानेन विधिना विद्यादानफलं लभेत् । भर्त्रा चैवा ननुज्ञाता विधवा च तमुद्दिशेत्” । विधानमाह “विद्या- र्थिने सदा दद्याद् वस्त्राभ्यङ्गञ्च भोजनम् । छत्रिका मुदकं दीपं यस्मात्तैलं विना म सः । लेखनीथटितं तीक्ष्णं मसीपात्रन्तु लेखनीम् । दत्त्वा तु लभते वत्स! विद्यादानमनुत्तमम् । पुस्तकस्तरणं दत्त्वा सुप्रमाणं सुशोभनम् । विद्यादानमवाप्नोति सूत्रवन्धञ्च बुद्धि- मान् । यन्त्रकं त्वासनञ्चैव दण्डासनमथापि वा । विद्यावाचनशीलाय दत्तं भवति राज्यदम् । अञ्जनं नेत्रपादानां दत्तं विद्यापरायणे । भूमिर्गृहञ्च क्षेत्रञ्च स्वर्गराज्यफलप्रदम् । यस्य भूम्यां स्थितो नित्यं विद्यादानं प्रवर्त्तयेत् । तस्यापि भवति स्वर्गस्तत्प्रभावान्न संशयः” । “येऽपि पत्रं मसीपात्रं लेखनीं सम्पुटादि- कम् । दद्युः शास्त्राभियुक्ताय तेऽपि विद्याप्रदायिनाम् । यान्ति लोकान् शुभान् मर्त्याः पुण्यभाजो नराधिप!” । नन्दिपु० “विद्यादानमवाप्नोति प्रदानात् पुस्तकस्य च । शिल्पानि शिक्षयेद् यस्तु पौण्डरीकफलं लभेत् । शिल्प- भाण्डप्रदानेऽपि तद्विद्यादानजं फलम् । अहितेषु प्रवृत्तस्य तथा कृत्वा निवारणम् । विद्यादानफलं प्रोक्तं नात्र कार्य्या विचारणा । पापवृत्तस्य च तथा दत्त्वा चैव परां मतिम् । विद्यादानफलं प्राप्य स्वर्गलोके महीयते । येन जीवति भाण्डेन तस्मै तद्भाण्डदायकः । सर्वकामसमृद्धश्च यज्ञस्य फलमश्नुते” विष्णुधर्मो० । तत्रैव स्कन्दपु० विद्यादानोपक्रमे “पुस्तकस्तरणं दत्त्वा सहस्रं तत्प्रमाणतः । तदासनं वितानं वा शिवलोके महीयते । यः श्रीपर्णसमुद्भूतं निम्नखातं सुलक्षणम् । दद्यात् सम्पुटकं कृत्वा चर्मणा वापि नि- र्मितम् । शिवज्ञानाभियुक्ताय तदध्ययनहेतुना । सु- श्लक्ष्णं फलकं वापि विद्यादानफलं लभेत् । यः सौवर्णं सुसम्पूर्णं सर्वरत्नोपशोभितम् । सपिधानं समञ्जूषं विद्याकोशसमाश्रयम् । कारयेद्वापि रौप्येण ताम्रेण चतु- रखकम् । कांव्यारकूटं लोहं वा दारुवंशादिनिर्मितम् । सकवायातिरक्तेन चर्मणाभिनवेन च । अन्तर्बहिश्च मठयेत् विद्यादाने नवं गृहम् । सुदृढं कटकोपेतं दृढस्तम्भनिवेशनम् । कुर्य्यात्तालकसंयुक्तं विद्यावर्त्ति- करण्डकम् । एवं वित्तानुसारेण कारयित्वा गृहं नृपः । विद्यासिंहासनं तत्र संपूज्य विधिवद्बुधः । तस्मिन् पुण्याहशब्देन विद्याकोशगृहं न्यसेत् । एवं यः शिवविद्यायाः कुर्य्यादायतनं शुभम् । स मुक्तः पा- तकैः सर्वैविद्यादानफलं लभेत् । विद्यामण्डलकं कृत्वा विद्याव्याख्यानमण्डपे । तत्राभ्यर्च्य शिवां विद्यां तद्- व्याख्यां शृणुयात्ततः । सोऽपि याति शिवस्थ्यानं कार्य- कालसमन्वितम् । अनेन विधिना ज्ञानं यः शृणोति प्रवक्तृतः । स साम्राज्यश्रियं सौख्यं देहान्ते मुक्ति- माप्नुयात्” । तत्रैव देवीपु० “तस्मात् सर्वप्रयत्नेन विद्या देया सदा नरैः । इहैव कीर्त्तिमाप्नोति मृतो याति परां गतिम् । यस्तु देव्या गृहे नित्यं विद्या- दानं प्रवर्त्तयेत् । स भवेत् सर्वलोकानां पूज्यः पूज्यपदं व्रजेत्” । वराहपु० “लेखापयित्वा तच्छास्त्रं देयं गुण- वते सदा । तपस्विने, धर्मरते प्रतिपालनतत्परे । वस्त्र- युग्मेन संवीतं पुस्तकं प्रतिपादयेत् । वाचकं पूजयेच्चापि वस्त्रालङ्कारभूषणैः । अनेनैव विधानेन विद्यादानफलं लभेत्” ।


शब्दकल्पद्रुमः

विद्यादानं || क्ली (विव्याया दानम् ।)
अध्यापनम् । पुस्तकदानम् । यथा, — वशिष्ठ उवाच । “विद्यादानं प्रवक्ष्यामि याथातथ्यात्तवाधुना । तथा देयं फलं यच्च तच्छृणुष्व नृपोत्तम ! ॥ पुण्येऽह्रि शुभनक्षत्रे मण्डपं शुभवेदिकम् । चतुरस्रं वितानं वा कृत्वा तत्रोपलेपयेत् ॥ गोमयेनोपलिप्ते तु पुष्पप्राकरशोभिते । तत्र न्यस्यासनं दिव्यं दिव्यगन्धादिवासितम् ॥ संस्थाप्य पुस्तकं तत्र धर्म्मशास्त्रस्य धीमता । ब्राह्मणान् वेदसंपूर्णान् छन्दोलक्षणपारगान् ॥ लेखयित्वा तु यत्नेन तत्समक्षं शुभाक्षरैः । चन्द्रसूर्य्योपरागे वा संक्रान्त्ययनवासरे ॥ पुण्येऽह्नि तत् सुसंपूज्य वस्त्रालङ्कारभूषणैः । घृतधेन्वा युतं रत्नैर्दद्यात् गुणवते ततः ॥ शास्त्रसद्भावविदुषे वाचकेऽतिप्रियंवदे । तच्छास्त्रं शृणुतां नित्यं जनानां नाशयन्त्यथ । दातुस्तस्माद्भवत्येवं फलं तच्छृणु भूपते ॥ यत् पुण्यं सर्व्वतीर्थानां विधिवद्यजतां तथा । तत् पुण्यं समवाप्नोति विधिवच्छास्त्रदः पुमान् ॥ कपिलानां सहस्रेण सम्यग्दत्तेन यत् फलम् । तद्राजन् सकलं लेभे धर्म्मशास्त्रप्रदायकः ॥ पुराणं भारतं वापि रामायणमथापि वा । दत्त्वा यत् फलमाप्नोति न तत् सर्व्वैर्महामखैः ॥ देवानामालये नित्यं धर्म्मशास्त्राणि यः पुमान् । अध्यापयति धर्म्मात्मा तस्य दानफलं शृणु ॥ धनभूमिहिराण्यानां दानेन यदवाप्यते । फलं तत् सकलं राजन् नित्यं कारापकस्य च ॥ योऽधीते धर्म्मशास्त्राणि देवानां पुरतोऽनिशम् । द्विजो वीप्सुरथार्थानामेवमेवार्हति ध्रुवम् ॥ प्रातरुत्थाय यो वेदं वेदाङ्गं शास्त्रमेव वा । पृथिवीदानतुल्यं स्यात् फलं तस्य नृपोत्तम ॥ दानैर्योऽपि विभर्त्त्येताननीप्सुर्धर्म्मतत्परः । द्बिगुणं पृथिवीदानात् फलं तस्य भवेन्नृप ! ॥ यो भृतं पठमानानां करोत्यनुदिनं नृप ! । स यज्ञफलमादत्ते दानाच्छादनभोजनैः ॥ विवेको जीवितं दीर्घं घर्म्मकामार्थसम्पदः । सर्व्वं तेन भवेद्दत्तं शास्त्राणां पोषणे कृते ॥ वाजपेयसहस्रस्य सम्यगिष्टस्य यत् फलम् । तत् फलं समवाप्नोति विद्यादानान्न संशयः ॥ तस्माद्देवालये नित्यं धर्म्मशास्त्रस्य वा श्रुतेः । पठनं कारयेद्राजन् यदीच्छेद्धर्म्ममात्मनः ॥ गोभूहिरण्यवासांसि शयनान्यासनानि च । प्रत्यहं तेन दत्तानि भवन्ति नृपसत्तम ! ॥ धर्म्माधर्म्मं न जानाति लोकोऽयं विद्यया विना । तस्मात् सदैव धर्म्मात्मन् विद्यादानरतो भव ॥” इति वह्रिपुराणे विद्यादाननामाध्यायः ॥



Correction: