संस्कृत-शब्दकोशः

विद्युत्वत् विद्युन्मालिन्

विद्युन्माला

वाचस्पत्यम्

विद्युन्माला ||‍ स्त्री अष्टाक्षरपादके छन्दोभेदे । “मो मो गो गो विद्युन्माला” छन्दोम० ।


शब्दकल्पद्रुमः

विद्युन्माला || स्त्री अष्टाक्षरपादच्छन्दोविशेषः । यथा । “मो मो गो गो विद्युन्माला ।” “वासो वल्ली विद्युन्माला वर्हश्रेणी शाक्रश्चापः । यस्मिन्नास्तां तापोच्छित्त्यै गोमध्यस्थः कृष्णा- म्भोदः ॥” इति छन्दोमञ्जरी ॥ अपि च । “सर्व्वे वर्णा दीर्घा यस्या विश्रामः स्याद्बेदैर्वेदैः । विद्बद्वृन्दैर्वीणावाणि ! व्याख्याता सा विद्यु- न्माला ॥” इति श्रुतबोधः ॥



Correction: