संस्कृत-शब्दकोशः

विद्र विद्रधिनाशन

विद्रधि

वाचस्पत्यम्

विद्रधि ||‍ पु० वेत्त्यनेन विद् हृदयं रुणद्धि रुध—कि पृषो० । रोगभेदे । तल्लक्षणादि भावप्र० उक्तं यथा “तत्र विद्रधेः सम्प्राप्तिपूर्वकं सामान्यं लक्षणमाह । “त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः । दोमाः शोथं शनैर्घोरञ्जनयन्त्युच्छ्रिता भृशम् । महामूलं रुजावन्तं वृत्तं वाप्यथ वायतम् । स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः” अस्थिसमाश्रिता दोषा इति वक्ष्यमाणशोथांद् विद्रधेर्भेदार्थम् । यतो व्रणशोथे दोषा- णामस्थिसमाश्रयनियमो नास्ति इति व्रणशोथात् दारु- णम् । आयतन्दीर्घम् । षडविधत्व विवृणोति । “यथा दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा । षणां तेषां तुल्यमेव लक्षणं सम्प्रचक्षते” अथ विशिष्टानि लक्ष- णानि । तत्र वातिकस्य लक्षणमाह “कृष्णोऽरुखो वा विपमो भृशमत्यर्थवेदनः । चिरोत्थानप्रपाकश्च वि- द्रधिर्वातसम्भवः” विषमो भृशम् क्षणमल्पः क्षणं म- हान् । चिरीत्थानप्रपाकः चिराद्विलम्बादुत्थानमुद्गतिः प्रपाकश्च यस्य स । अथ पैत्तिकमाह “पक्वोदुम्बर- सङ्काशः श्यावो वा ज्वरदाहवान् । क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसम्भवः” । अथ श्लैष्मिकमाह । “शराव- दृशः पाण्डुः शीतः सिग्धोऽल्पवेदनः । चिरोत्थान प्रपाकश्च विद्रधिः कफमभवः । तनुपीतासिताश्चैषामा- स्नावाः कमशोमताः” । अथ सान्निपातिकमाह । नाना- वर्णरुजास्वावो घाटालो विषमो महान् । विषमं पच्यते वापि विद्रधिः सान्निपातिकः” । नाना अनेकविधाः वर्णाः कृष्णरक्तपाण्डुरूपाः । रुजा तोददाहकण्डादिरूपाः स्रवाः तनुपेतसिताः यस्य सः । घाटालः घाटाकोटिः सासास्तीनि घाटालः अत्युच्छ्रिताग्र इत्यर्थः । वि- षमः निम्नोन्नतः । विषम पच्यते चिराचिरगम्भी- रोत्तानोर्द्धानूर्द्ध्वभेदेन विषमं यथा स्यात्तथा पच्यते । अथाभिघातजस्यागन्तोः विद्रधेः सम्प्राप्तिपूर्वकं लक्षणमाह । “तैस्तैर्भावैरभिहते क्षते वाऽपथ्यकारिणाम् । क्षतोष्मा वायुविसूतः सरक्तं, पित्तमीरयेत् । ज्वरस्तृषा च दा- हश्च जायते तस्य देहिनः । आगन्तुर्विद्रधिर्ह्येषः पित्त- विद्रधिलक्षणः” । तैस्तैर्भावैः काष्ठलोष्ट्रपाषाणादिभिः अभिहते यदा रक्तस्रावो भवति । तथाभिहते क्षते कृते वा अथ वा खड्गशूलादिभिः क्षते यथारक्तस्रावो भवति तथा क्षते कृते क्षतोष्मा । अत्र क्षतशब्देन हतमात्र उ- च्यते तेनाभिहतक्षतयोरुभयोरप्यूष्मा वायुना विसृतः अभिथातात् क्षते रक्तक्षयात् कुपितेन वायुना प्रसृतः । ईरयेत् कोपयेत् । अथ रक्तजमाह “कृष्णस्फोटावृतः श्या- वस्तीव्रदाहरुजाज्वरः । पित्तविद्रधिलिङ्गस्तु रक्तविद्रधि- रुच्यते” अधिष्ठानविशेषेण लिङ्गविशेष वोधयितुमाभ्य- न्तरान् विद्रधीनाह “आभ्यन्तरानतस्तूर्द्ध्वं विद्रधीन् परिचक्षते । गुर्वसात्म्यविरुद्वान्नशुष्कशाकाम्लभोजनाः । अतिव्यवायामवेगाघातात्युष्णविदाहिभिः । पृथक् स- म्भूय वा दोषाः कुपिता गुलमरूपिणम् । वल्मीक- वत्समुन्नद्धमन्तः कुर्वन्ति विद्रधिम् । गुद वास्तमुखे नाभ्या कुक्षा वङ्क्षणयोस्तथा । कक्षयोः प्लीह्नि यकृति हदि वा क्लोम्नि चाप्यथ । एषां लिङ्गानि जानीयाद्पाह्यविद्र- विलक्षणैः” सम्भूय वा मिलित्वा वा । समुन्नद्ध सम- मन्तादुन्नतम् । स्थानविशेषेण रूपविशेषमाह “गुदे वातनिरोधस्तु वस्तौ कृच्छ्राल्पमूत्रता । नाभ्यां हिक्कां जृम्भणे च कुक्षौ भारुतकोपनम् । कटिपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु बिद्रवो । कक्षयोः पार्श्वसङ्कोचः प्लीह्न्यु- च्छ्वासावराधनम् । सर्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जा- यते । श्वासो यकृति हिक्का च क्लोग्नि पेपींयते पयः” स्रावमार्गमाह “नाभेरुपरिजाः पक्वा बान्त्यूर्द्ध्वमितरे त्वधः”। कक्षादिजाताः यान्ति स्रवन्ति ऊर्द्ध्वमातात्, इतरे वस्त्यादिजाः अघः गुदात् । नाभिजस्तूभाभ्यां मार्गा- भ्याम् । तथा च हारीतः ऊर्द्ध्वं प्रभिन्नेषु मुखान्न- राणां प्रवर्त्ततेऽसृक्सहितो हि पूवः । अधः प्रभि- न्नेषु तु पायुमार्गाद् द्वाभ्यां प्रवृत्तिस्त्विह नाभिजेषु” अथ साध्यत्वादिकमाह “अधःस्रुतेषु जीवेत्तु स्रुतेषूर्द्ध्वं न जीवति । हन्नाभिवस्तिवर्जषु तेषु भिन्नेषु वाह्यतः । जीवेत्कदाचित् पुरुषो नेतरेषु कदा च न” । हृन्नाभिवस्ति- वर्जेषु प्लीहक्लोमादिजाः तेषु तथाभिन्नेषु न जीवेत् हृदादीनां मर्मत्वात् । अतएव भोजः “असाध्यो म- र्मजो ज्ञेयः पक्वोऽपक्वश्च विद्रधिः । सन्निपातोत्थितो- ऽप्येवं पक्व एव हि वस्तिजः । त्वगजो नाभेरघोजश्च साध्यो यश्च समीपजः । अपक्वश्चैव पक्वश्च साध्यो नीपरि नाभितः । आध्मानं बद्वनिष्यन्दं छर्दिहिक्कातृषा- न्वितम् । रुजाश्वाससमायुक्तं विद्रधिर्नाशयेन्नरम्” अथ वाह्यविद्रधोनां साध्यासाध्यत्वमाह “साध्या विद्र- धयः पञ्च विवर्ज्यः सान्निपातिकः । आमपक्वविदग्धत्वं तेषां ज्ञेयञ्च शोथवत्” शोथवत् वक्ष्यमाणव्रणशोथवत्” ।


शब्दकल्पद्रुमः

विद्रधिः || पुं, रोगविशेषः । तत्पर्य्यायः । विदरणम् २ हृद्ग्रन्थिः ३ हृद्व्रणः ४ । इति राजनिर्घण्टः ॥ तत्र विद्रधेः संप्राप्तिपूर्ब्बकं सामान्यं लक्षण- माह । “त्वग्रक्तमांसमेदांसि प्रदुष्यास्थिसमाश्रिताः । दोषाः शोथं शनैर्षोरं जनयन्त्युश्रिता भृशम् ॥ महामूलं रुजावन्तं वृत्तं वाप्यथवायतम् । स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ॥” अस्थिसमाश्रिता दोषा इति वक्ष्यमाणाद्व्रण- शोथाद्विद्रधेर्भेदार्थम् । यतो व्रणशोथे दोषा- णामस्थिसमाश्रयनियमो नास्ति । घोरं व्रण- शोथाद्दारुणम् । आयतं दीर्घम् ॥ * ॥
षड्- विधत्वं विवृणोति । “पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा । षण्णामपि हि तेषान्तु लक्षणं संप्रचक्ष्यते ॥” * ॥
तत्र वातिकस्य लक्षणमाह । “कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनः । चित्रोत्थानप्रपाकश्च विद्रधिर्व्वातसम्भवः ॥” विषमो भृशं क्षणमल्पः क्षणं महान् । चित्रो- त्थानप्रपाकः । चित्रौ नानाविधौ उद्गमप्रपाकौ यस्य सः ॥ * ॥
पैत्तिकमाह । “पक्कोडुम्बरसङ्काशः श्यावो वा ज्वरदाहवान् । क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसम्भवः ॥” श्लैष्मिकमाह । “शरावसदृशः पाण्डुः शीतस्निग्धोऽल्पवेदनः । चिरोत्थानप्रपाकश्च विद्रधिः श्लेष्मसम्भवः । तनुपीतसिताश्चैषामास्रावाः क्रमशो मताः ॥” सान्निपातिकमाह । “नानावर्णरुजः स्रावो घाटालो विषमो महान् । विषमं पच्यते वापि विद्रधिः सान्निपातिकः ॥” नाना अनेकविधाः । वर्णाः कृष्णरक्तपाण्डुरूपाः । रुजः तोददाहकण्ड्वादिरूपाः । स्रावाः तनु- पीतसिता यस्य । घाटालः घाटा कृकाटिका- स्यास्ति इति घाटालः । अत्युच्छ्रिताग्र इत्यर्थः । विषमः निम्नोन्नतः । विषमं पच्यते चापि चिराचिरगभीरोत्तानोर्द्ध्वार्द्धभेदेन विषमं यथा स्यात्तथा पच्यते ॥ * ॥
अभिघातजस्यागन्तोः संप्राप्तिपूर्व्वकं लक्षणमाह । “तैस्तैर्भावैरभिहिते क्षते वापथ्यकारिणः । क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् ॥ ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः । आगन्तुविद्रधिर्ह्येष पित्तविद्रधिलक्षणः ॥” तैस्तैर्भावैः काष्ठलोष्टपाषाणादिभिर्हते यथा रक्तस्रावो न भवति तथाभिहते क्षते कृते वा । अथवा खड्गशूलादिभिः क्षते यथा रक्तस्रावो भवति तथा क्षते कृते क्षतोष्मा अत्र क्षतशब्देन हतमात्रमुच्यते । तेनाभिहतक्षतयोरप्युष्मवायु- विसृतः । अभिहतः अभिघातात् क्षते रक्त- क्षयात् कुपितेन वायुना प्रसृतः ईरयेत् कोप- येत् ॥ * ॥
रक्तजमाह । “कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः । पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते ॥” * ॥
अधिष्ठानविशेषेण लिङ्गविशेषं बोधयितुमाभ्य- न्तरान् विद्रधीनाह । “आभ्यन्तरानतस्तूर्द्ध्वं विद्रधीन् परिचक्ष्यते । गुर्व्वसात्मविरुद्धान्नशुष्कशाकान्नभोजनात् ॥ अतिसञ्चीयव्यायामवेगाधातविदाहिभिः । पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपि- णम् ॥ वल्मीकवत् समुन्नद्धमन्तः कुर्व्वन्ति विद्रधिम् । गुदे वस्तिमुखे नाभ्यां कुक्षौ वंक्षणयोस्तथा ॥ वुक्कयोः प्लीह्रि यकृति हृदि वा क्लोम्नि वाप्यथ । येषां चिह्रानि जानीयात् बाह्यविद्रधिलक्षणैः । सम्भूय वा मिलित्वा वा समुन्नर्द्धं तदुन्नतम् ॥” * ॥
स्थानविशेषेण रूपविशेषमाह । “गुदे वातनिरोधस्तु वस्तौ कृच्छ्राल्पमूत्रता । नाभ्यां हिक्का तथाटोपः कुक्षौ मारुतकोपनम् ॥ कटीपृष्ठग्रहस्तीव्रो वक्षणोत्थे च विद्रधौ । वुक्कयोः पार्श्वसंकोचः प्लीह्रः श्वासनिरोधनम् ॥ सर्व्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जायते । श्वासो यकृति हिक्का च क्लोम्नि पेपीयते पयः ॥” स्रावमार्गमाह । “नाभेरुपरिजाः पक्वा यान्त्यूर्द्ध्वमितरे त्वधः । अधः स्रुतेषु जीवेच्च स्रुतेषूर्द्ध्वं न जीवति ॥” नाभेरुपरिजा वुक्कादिजाताः । यान्ति स्रवन्ति ऊर्द्ध्वमुखात् । इतरे वस्त्यादिजाः । अधः गुदात् । नाभिजस्तूभाभ्यां मार्गाभ्याम् । तथा च हारीतः । “ऊर्द्ध्वप्रभिन्नेषु मुखान्नराणां प्रवर्त्ततेऽसृक्सहितो हि पूयः । अधःप्रभिन्नेषु तु पायुमार्गाद्- द्बाभ्यां प्रवृत्तिस्त्विह नाभिजेषु ॥” * ॥
साध्यत्वादिकमाह । “अधःस्रुतेषु जीवेत्तु स्रुतेषूर्द्ध्वं न जीवति । हृन्नाभिवस्तिपर्य्याये तेषु भिन्नेषु बाह्यतः । जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन ॥” हृन्नाभिवस्तिपर्य्याये प्लीहक्लोमादिजातेषु । बाह्यतः शस्त्रवैद्यव्यापारेण भिन्नेषु पुरुषः कदाचित् जीवेत् । इतरेषु हृन्नाभिवस्तिजेषु तथा भिन्नेषु न जीवेत् । हृदादीनां मर्म्मत्वात् । अतएव भोजः । “असाध्यो मर्म्मजो ज्ञेयः पक्वोऽपक्वश्च विद्रधिः । सन्निपातोत्थितोऽप्येवं पक्व एव हि वस्तिजः ॥ हृज्जा नाभेरधोजश्च साध्या मर्म्मसमीपतः । अपक्वश्चैव पक्वश्च साध्यो नोपरि नाभितः ॥ आध्मानं बद्धनिष्पन्दं छर्दिहिक्कातृषान्वितम् । रुजाश्वाससमायुक्तं विद्रधिर्नाशयेन्नरम् ॥” * ॥
बाह्यविद्रधीनां साध्यासाध्यत्वमाह । “साध्या विद्रधयः पञ्च विवर्ज्ज्यः सान्निपातिकः । आमं पक्वं विदग्धत्वं तेषां शोथवदादिशेत् ॥” शोथवत् वक्ष्यमाणव्रणशोथवत् ॥ * ॥
अथ विद्रधेश्चिकित्सा । “जलौकापातनं शस्तं सर्व्वस्मिन्नपि विद्रधा । मृदुर्व्विरेको लघ्वन्नं स्वेदः पित्तोत्तरं विना ॥ अपक्वविद्रधौ युञ्ज्याद्व्रणशोथवदौषधम् । वातघ्नमूलकल्कैर्व्वा वसातैलघृतान्वितैः ॥ सुखोष्णो वहृलो लेपः प्रयोज्यो वातविद्रधौ । यवगोधूममुद्गैश्च पिष्टैराज्येन लेपयेत् ॥ विलीयते क्षणेनैव ह्यविपक्वस्तु विद्रधिः । पैत्तिकं विद्रधिं वैद्यः प्रदिह्यात् सर्पिषा युतैः । पयस्योशीरमधुकचन्दनैर्दुग्धपेषितैः ॥ पयस्यानेकार्थत्वात् अत्र क्षीरकाकोली गुणा- धिक्यात् । तस्या अलाभे अश्वगन्धा ग्राह्या । “पञ्चवल्कलकल्केन घृतमिश्रेण लेपयेत् । पिबेद्वा त्रिफलाक्वाथं त्रिवृत्कल्काक्षसंयुतम् ॥ इष्टिकासिकतालोहकीट्टै र्गोशकृता सह । मूत्रैः सुखोष्णैर्लेपन स्वेदयेत् श्लेष्मविद्रधिम् ॥ दशमूलीकषायेण सस्नेहेन घृतेन च । शोथं व्रणं वा कोष्णेन सशूलं परिषेचयेत् ॥ पित्तविद्रधिवत् सर्व्वाः क्रिया निरवशेषतः । विद्रधौ कुशलः कुर्य्यात् रक्ताङ्गस्तु निमित्तयोः ॥ रक्तचन्दनमञ्जिष्ठाविशामधुकगैरिकैः । क्षीरेण विद्रधौ लेपो रक्ताङ्गन्तु निमित्तके ॥ कृष्णाजाजी विशाला च धामार्गवफलं तथा । पीतं ह्येते निहन्त्याशु विद्रधीन् कोष्ठसम्भवान् ॥” धामार्गवफलं कोषातकीफलम् । “श्वेतवर्षाभुवो मूलं मूलं वरुणकस्य च । जलेन क्वथितं पीतमन्तर्विद्रधिहृत् परम् ॥ गायत्त्रीत्रिफलानिम्बकटुका मधुकं समम् । त्रिवृत्पटोलमूलाभ्यां चत्वारोऽंशाः पृथक् पृथक् ॥ मसूरान्निस्तुषान् दद्यात् एष क्वाथो घृताज्जयेत् । विद्रधिगुल्मवीसर्पदाहमोहज्वरापहः । तृण्मूर्च्छाच्छर्दिहृद्रोगपित्तासृक्कुष्ठकामलाः ॥” वाग्भटात् । “शिग्रुमूलं जले धौतं पिष्टं वस्त्रेण गालयेत् । तद्रसं मधुना पीत्वा हन्त्यन्तर्विद्रधिं नरः ॥ शोभाञ्जनकनिर्पू हो हिङ्गुसैन्धवसंयुतः । हन्त्यन्तर्विद्रधिं जन्तोः प्रातः प्रातर्निषेवितः ॥” निर्यूहः क्वाथः । इति विद्रध्याधिकारः । इति भावप्रकाशः ॥



Correction: