वाचस्पत्यम्
विद्रधिनाशन || पु० विद्रधिं नाशयति नश—णिच्—ल्यु । शोभा- ञ्जने त्रिका० ।
शब्दकल्पद्रुमः
विद्रधिनाशनः || पुं, (विद्रधिं रोगविशेषं नाशय- तीति । नश + णिच् + ल्युः ।) शोभाञ्जन- वृक्षः । इति त्रिकाण्डशेषः ॥