वाचस्पत्यम्
विद्र(द्रा)व || पु० विद्रु—अप् घञ् वा । १ पलायने अमरः २ क्षरणे च शब्दमा० ।
शब्दकल्पद्रुमः
विद्रवः || पुं, (विद्रवणमिति । वि + द्रु + “ऋदो- रप् ।” ३ । ३ । ५७ । इत्यप् ।)
पलायनम् । इत्यमरः ॥ (यथा, महाभारते । ७ । १०६ । ३८ । “तैः शरैस्तव सैन्यस्य विद्रवः सुमहानभूत् ॥”)
बुद्धिः । इति मेदिनी । वे, ५१ ॥ निन्दा । इति शब्दरत्नावली ॥ क्षरणम् । इति केचित् ॥ (विबाशः । यथा, बृहत्संहितायाम् । ३४ । १३ । “भौमे कुमारबलपति- सैन्यानां विद्रवोऽग्निशस्त्रभयम् ॥”)