संस्कृत-शब्दकोशः

विद्रावित विद्रुम

विद्रुत

वाचस्पत्यम्

विद्रुत ||‍ त्रि० वि + द्रु—क्त । १ प्राप्तद्रवे २ पलायिते च अमरः ।


शब्दकल्पद्रुमः

विद्रुतः || त्रि (वि + द्रु + क्तः ।)
प्राप्तद्रवीभाव- घृतादिः । तत्पर्य्यायः । विलीनः २ द्रुतः ३ । इत्यमरः ॥ पलायितश्च ॥ (यथा, रघुः । ११ । ४४ । “विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजत वृषध्वजः ॥” पीडितः । यथा, मनुः । ७ । ३ । “अराजके हि लोकेऽस्मिन्सर्व्वतो विद्रुते भयात् । रक्षार्थमस्य सर्व्वस्य राजानमसृजत् प्रभुः ॥”)



Correction: