शब्दकल्पद्रुमः
विद्रुमलतिका || स्त्री (विद्रुमलता । स्वार्थे कन् । टापि अत इत्वम् ।) नलिका । इति राज- निर्घण्टः ॥