संस्कृत-शब्दकोशः

विद्वद्देश्य विद्विष

विद्वस्

वाचस्पत्यम्

विद्वस् ||‍ त्रि० विद—क्वसु । १ प्राज्ञे स्त्रियां ङीप् सम्प्र० “विदुषी मूर्ध्वनि सा विभर्त्ति यान्” नैष० । २ पण्डिते पु० ३ आत्मज्ञानयुक्ते ।


शब्दकल्पद्रुमः

विद्वान् || [स्] त्रि, (वेत्तीति । विद् + शतृ । “विदेः शतुर्वसुः ।” ७ । १ । ३६ । इति शतुर्वसुरादेशः ।)
आत्मवित् । प्राज्ञः । पण्डितः । इति मेदिनी ॥ (यथा, मनुः । १ । ९७ । “ब्राह्मणेषु तु विद्वांसो विद्वतसु कृतबुद्धयः । कृतबुद्धिषु कर्त्तारः कर्त्तृषु ब्रह्मवेदिनः ॥”)



Correction: