वाचस्पत्यम्
विद्वेष || पु० वि + द्विष—घञ् । वैरिभावे शत्रुतायाम् अमरः ।
शब्दकल्पद्रुमः
विद्वेषः || पुं, (वि + द्विष् + घञ् ।)
शत्रुता । तत्- पर्य्यायः । वैरम् २ विरोधः ३ । इत्यमरः ॥ अनुशयः ४ द्वेषः ५ समुच्छ्रयः ६ वैरत्वम् ७ । इति जटाधरः ॥ द्वेषणम् ८ । इति शब्दरत्ना- वली ॥ (यथा, आर्य्यासप्तशत्याम् । ६०२ । “सुभग स्वभवनभित्तौ भवता संमर्द्य पीडिता सुतनुः । सा पीडयैव जीवति दधती वैद्येषु विद्बेषम् ॥”)