विद्वेष
विद्वेषण
विद्वेषक
शब्दकल्पद्रुमः
विद्वेषकः || त्रि विद्वेष्टा । द्वेषकर्त्ता । विरोधकः । वैरी । विद्वेष्टीति विपूर्ब्बद्विषधातोर्णक(ण्वुल्)
प्रत्यथेन निष्पन्नः ॥ (यथा, महाभारते । १३ । ७३ । १४ । “न मित्रध्रुङ्नैकृतिकः कृतघ्नः शठोऽनृजुर्धर्म्मविद्वेषकश्च ॥”)