शब्दकल्पद्रुमः
विद्वेषी || [न्] त्रि, (विशेषेण द्वेष्टीति । वि + द्बिष् + णिनिः ।)
यद्वा, विद्वेषशब्दादस्त्यर्थे इन्प्रत्य- येन निष्पन्नः । विद्वेषविशिष्टः । वैरी । (यथा, महाभारते । १३ । १४५ । ५८ । “अपरे स्वल्पविज्ञाना धर्म्मविद्वेषिणो नराः । ब्राह्मणान् वेदविदुषो नेच्छन्ति परिसर्पितुम् ॥”)