वाचस्पत्यम्
विधवा || स्त्री विगतो धवो यस्याः । मृतपतिकायां स्त्रियाम् अमरः । विधवाधर्माश्च शु० त० उक्ता यथा विष्णुस० “मृते भर्तरि ब्रह्मचर्य्यं तदन्वारोहणं वा” । ब्रह्मचर्य्यं मैथुनवर्जनं ताम्बूलादिवर्जनञ्च यथाह प्रचेताः “ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् । यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत्” । कभ्यञ्जनमायुर्वेदोक्तम्” रघु० । का- शीख० विस्तरेण ४ अ० उक्ता यथा “अनुयाति न भर्त्तारं यदि दैवात् कदाचन । तथापि शीलं संरक्ष्यं शीलभङ्गात् पतत्यधः । तद्वैगुण्यादपि स्वर्गात् पतिः पतति नान्यथा । तस्याः पिता च माता च भ्रातृवर्गस्तथैव च । पत्यौ मृते च या योषिद्वै- धव्यं पालयेत् क्वचित् । सा पुनः प्राप्य भर्त्तारं स्वर्गभोगान् समश्नुते । विधवाकवरीबन्धो भर्तृबन्धाय जायते । शिरसो वपनं तस्मात् कार्य्यं विधवया सदा । एकाहारः सदा कार्य्यो न द्वितीयः कदाचन । त्रिरात्रं पञ्चरात्रं वा पक्षव्रतमथापि वा । मासोपवासं कुर्य्याद् वा चान्द्रायणमथापि वा । कृच्छ्रं पराकं वा कुर्य्यात् तप्तकृच्छ्रमथापि वा । यवान्नैर्वा फलाहारैः शाका- हारैः पयोव्रतैः । प्राणयात्रां प्रकुर्वीत यावत् प्राणः स्वयं व्रजेत् । पर्य्यङ्कशायिनी नारी विधवा पातयेत् पतिम् । तस्माद्भूशयनं कार्य्यं पतिसौख्यसमीहया । नैवाङ्गोद्वर्त्तनं कार्य्यं स्त्रिया विधवया क्वचित् । गन्ध- द्रव्यस्य सम्भोगोनैव कार्य्यस्तया पुनः । प्रत्यहं तर्पणं कार्य्यं भर्तुः कुशतिलोदकैः । तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम् । विष्णोस्तु पूजनं कार्य्यं पति- सुद्ध्या न चान्यथा । पतिमेव सदा ध्यायेद्विष्णुरूपधरं परम् । यद् यदिष्टतमं लोके यच्च पत्युः समीहितम् । तत्तद्गुणवते देयं पतिप्रीणनकाम्यया । वैशाखे कार्त्तिके माघे विशेषनियमांश्चरेत् । स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः । वैशाखे जलकुम्भांश्च कार्त्तिके वृतदीपकाः । माघे तिलेन्धनोत्सर्गः स्वर्गलोके मही- यते । प्रपा कार्य्या च वैशाखे देवे देया गलन्तिका । उपानद्व्यजनं चापि सूक्ष्मवासांसि चन्दनम् । स- कर्पूरन्तु ताम्बूलं पुष्पदानं तथैव च । जलपात्राण्यने- कानि तथा पुष्पगृहाणि च । पानानि च विचित्राणि द्राक्षारम्भाफलानि च । देयानि द्विजमुख्येभ्यः पतिर्मे प्रीयतामिति । ऊर्जे यवागूमश्नीयाटेकान्नमथ वा पुनः । वृन्ताकं शूरणञ्चैव शूकशिम्बीञ्च वर्जयेत् । कार्त्तिके वर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु । कार्त्तिके वर्जयेत् कांस्यं कार्त्तिके चापि सन्धितम् । कार्त्तिके मौननियमे घण्टां चारुं प्रदापयेत् । पत्रभोजी कांस्यपात्रं घृतं पूर्णं प्र- यच्छति । भूमिशव्याव्रते देया शय्या श्लक्ष्णा सतूलिका । फलत्यागे फलं देयं रसत्यागे च तद्रसः । धान्यत्यागे च तद्धान्यमथ वा शालयः स्मृताः । धेनुं दद्यात् प्रयत्नेन सालङ्कारां सकाञ्चनाम् । एकतः सर्वदानानि दीप- दानं तथैकतः । कार्त्तिके दीपदानस्य कलां नार्हन्ति षोडशीम् । किञ्चिदभ्युदिते सूर्य्ये माघस्नानं समाचरेत् । यथाशक्त्या च नियमान्माघे स्नानं समाचरेत् । पक्वा- न्नैर्भोजयेद्विप्रान् यतीनपि तपस्विनः । लड्डुकैः फाणितैश्चापि वटकेण्डरिकादिभिः । घृतपक्वंः सम- रिचैः शुचिकर्पूरवासितैः । गर्भे शर्करया पूर्णैर्नेत्रा- नन्दैः सुगन्धिभिः । शुष्केन्धनानां भारांश्च दद्याच्छीताप- नुत्तये । कञ्चुकं तूलगर्भञ्च तूलिकां सूपवीतिकाम् । म- ञ्जिष्ठारूपवासांसि तथा तूलवतीं पटीम् । ऊर्णामयानि वासांसि यतिभ्योऽपि प्रदापयेत् । जातीफललवङ्गैश्च ताम्बूलानि वहून्यपि । कम्बलानि च चित्राणि नि- र्वातानि गृहाणि च । मृदुलाः पादरक्षाश्च सुगन्ध्यु- द्वर्त्तनानि च । घृतकम्बलपूजाभिर्महास्नानपुरःसरम् । संस्नाप्य शाम्भवं लिङ्गं पूजयेद् दृढभक्तितः । कृष्णा- गुरुप्रभृतिभिर्गर्भागारे प्रधूपनैः । तूलवर्त्तिप्रदीपैश्च नै- येद्यैर्विविधैस्तथा । भर्तृस्वरूपो भगवान् प्रीयतामिति चोच्चरेत् । एवंविधैश्च विधवा विविधैर्नियमैर्व्रतैः । वै- शाखान् कार्त्तिकान् माघानेवमेवातिवाहयेत् । नाधि- रोहेदनड्वाहं प्राणैः कण्ठगतैरपि । कञ्चुकं न परी- दध्याद्वासो न विकृत वसेत् । अपृष्ट्वातु सुतान् कि- ञ्चिन्न कुर्य्याद् भर्तृतत्परा । एवं चर्य्यापरा नित्यं वि- धवापि शुभा मता । इति धर्मसमायुक्ता विधवापि पति- व्रता । पतिलोकानवाप्नोति न भवेत् क्वापि दुःखिता” । व्रह्मवै० ज० ख० ८३ अ० अश्चिद्विशेष उक्तो यथा “ब्राह्मणी पतिहीना या भयेन्निष्क्रामणी सदा । एक- भक्ता दिनान्ते सा हविष्यान्नरता सदा । न धत्ते दिव्य- वस्त्रञ्च गन्धद्रव्यं सुतिलकम् । स्रजञ्च चन्दनं चैव शङ्खं सिन्दूरभूषणम् । त्यक्त्वा मलिनवस्त्रा स्यात् नित्यं नारा- यणं स्मरेत्” । “पुत्रतुल्यञ्च पुरुषं सदा पश्यति धर्मतः । मिष्टान्न न च भुङ्क्ते मा न कुर्य्याद्विभव व्रजम् । एका- दश्यां न भोक्तव्यं कृष्णजन्माष्टमीदिने । श्रीरामस्य नवम्याञ्च शिवरात्रौ पावित्रया । अधोरायाञ्च प्रेतायां चन्द्रसूर्य्योपरागयोः । भृष्टद्रव्यं परित्याज्यं भुज्यते पर- मेव च । ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारि- चाम् । सन्यासिनां च गोमाससुरातुल्यं श्रुतौ श्रुतम् । रक्तशाकं मसूरञ्च जम्बीरं पर्णमेव च । अलाबूर्वर्तुला- कारा वर्जनीया यतेरपि । पर्य्यङ्कशायिनी नारी विधवा पातयेत् पतिम् । यानस्यारोहणं कृत्वा विधवा नरकं व्रजेत् । न कुर्य्यात् केशसंस्कार गात्रमस्कारमेव च । कशाषली जटारूपा न क्षौरं तीर्थकं विना । तैलाभ्यङ्गं न कुर्वीत न हि पश्यति दर्पणम् । मुखञ्च परपुंसां च यात्रा नृत्यं महोत्सवम् । नर्त्तकं गायकञ्चैव सुवेशं पुरुषं शुभम्” ।
शब्दकल्पद्रुमः
विधवा || स्त्री (विगतो धवो भर्त्ता यस्याः ।)
मृत- भर्त्तृका । तत्पर्य्यायः । विश्वस्ता २ । इत्यमरः ॥ जालिका ३ रण्डा ४ यतिनी ५ यतिः ६ । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । १० । ४० । २ । “को वां शयुत्रा विधवेव देवरं मर्यं न योषा कृणुते सधस्थ आ ॥”)
तस्याः कर्त्तव्याकर्त्तव्यानि यथा । विष्णुः । “मृतेभर्त्तरि ब्रह्मचर्य्यं तदन्वारोहणं वा इति ।” ब्रह्मचर्य्यं मैथुनवर्ज्जनं ताम्वूलादिवर्ज्जनञ्च । यथा, प्रचेताः । “ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् । यतिश्च ब्रह्मचारी च विधवा च विवर्ज्जयेत् ॥” अभ्यञ्जनं आयुर्वेदोक्तं पारिभाषिकम् । स्मृतिः । “एकाहारः सदा कार्य्यो न द्वितीयः कदाचन । पर्य्यङ्कशायिनी नारी विधवा पातयेत् पतिम् ॥ गन्धद्रव्यस्य सम्भोगो नैव कार्य्यस्तया पुनः । तर्पणं प्रत्यहं कार्य्यं भर्त्तुः कुशतिलोदकैः ॥” एतत्तु तर्पणं पुत्त्रपौत्त्राद्यभाव इति मदनपारि- जातः ॥ “वैशाखे कार्त्तिके माघे विशेषनियमञ्चरेत् । स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः ॥” इति शुद्धितत्त्वम् ॥ * ॥
अपि च । “ब्राह्मणी पतिहीना या भवेन्निष्कामिनी सदा । एकभक्ता दिनान्ते सा हविष्यान्नरता सदा ॥ न घत्ते दिव्यवस्त्रञ्च गन्धद्रव्यं सुतैलकम् । स्रजञ्च चन्दनञ्चैव शङ्खसिन्दूरभूषणम् ॥ त्यक्त्वा मलिनवस्त्रा स्यान्नित्यं नारायणं स्मरेत् । नारायणस्य सेवाञ्च कुरुते नित्यमेव च ॥ तन्नामोच्चारणं शश्वत् कुरुतेऽनन्यभक्तितः । पुत्त्रतुल्यञ्च पुरुषं सदा पश्यति धर्म्मतः ॥ मिष्टान्नं न च भुङ्क्ते सा न कुर्य्याद्बिभवं व्रजम् । एकादश्यां न भोक्तव्यं कृष्णजन्माष्टमीदिने ॥ श्रीरामस्य नवम्याञ्च शिवरात्रौ पवित्रया । अघोरायाञ्च प्रेतायां चन्द्रसूर्य्योपरागयोः ॥ भ्रष्टद्रव्यं परित्याज्यं भुज्यते परमेव च । ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारिणाम् । सन्न्यासिनाञ्च गोमांसं सुरातुल्यं श्रुतौ श्रुतम् ॥ रक्तशाकं मसूरञ्च जम्बीरं पर्णमेव च । अलावुर्वर्त्तुलाकारा वर्ज्जनीया च तैरपि ॥ पर्य्यङ्कशायिनी नारी विधवा पातयेत् पतिम् । यान आरोहणं कृत्वा विधवा नरकं व्रजेत् ॥ न कुर्य्यात् केशसंस्कारं गात्रसंस्कारमेव च । केशवेणीजटारूपं तत्क्षौरं तीर्थकं विना ॥ तैलाभ्यङ्गं न कुर्व्वीत न हि पश्यति दर्पणम् । मुखञ्च परपुंसाञ्च यात्रा नृत्यं महोत्सवम् ॥ नर्त्तकं गायनञ्चैव सुवेशं पुरुषं शुभम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८३ अध्यायः ॥ (विधवायास्तु पत्यन्तर-ग्रहणं निषिद्धं न तद्विवाहशब्दवाच्यञ्च । तत्तु विशेषतो विचा- रेण ग्रन्थविस्तृतिर्भवेदतस्तद्भीतः केवलं कति- पयानि वचनान्युद्धृत्य दर्शयामि तानि सुधीभिर्व्विचारणीयानीति ॥ तत्र याज्ञवल्क्यः । “अविप्लुतब्रह्मचर्य्यो लक्षण्यां स्त्रियमुद्वहेत् । अनन्यपूर्व्विकां कान्तामसपिण्डां यवीयसीम् ॥” अनन्यपूर्ब्बिकां दानेनोप भोगेनवा पुरुषान्तरा- परिगृहीताम् ॥ व्यासः । २ । ३ । “सवर्णामसमानार्षाममातृपितृगोत्रजाम् । अनन्यपूर्ब्बिकां लध्वीं शुभलक्षणसंयुताम् ॥” गोतमः । ४ । १ । “गृहस्थः सदृशीं भार्य्यां विन्देतानन्यपूर्ब्बि- काम् ॥” वशिष्ठः । ८ । १ । “गृहस्थो विनीतक्रोधहर्षो गुरुणानुज्ञातः स्नात्वा असमानार्षां अस्पृष्टमैथुनां भार्य्यां विन्देत ॥” हारीतः । ४ । १ । “असमानार्षगोत्रां हि कन्यां सभ्रातृकां शुभाम् । सर्व्वावयवसम्पन्नां सुवृत्तामुद्बहेन्नरः ॥” पारस्करगृह्यसूत्रम् । “अग्निमुपधाय कुमार्य्याः पाणिं गृह्णीयात् त्रिषु त्रिषूत्तरादिषु ॥” कन्याशब्दार्थः कथ्यते । “कन्या कुमारी” इत्य- मरः । “कन्यापदस्यादत्तस्त्रीमात्रवचनेन ।” इत्यादि दायभागटीकायां आचार्य्यचूडा- मणिः । “कन्यापदस्यापरिणीतामात्रवचनात् ।” इति रघुनन्दनः ॥ “अनूढात्वेन कन्यापदस्य सपत्नीकन्या बोधकतया अमुख्यत्वप्रसक्तेः तद्रूपे- णैव कन्यापदस्य शक्तेः ।” इति श्रीकृष्णतर्का- लङ्कारः ॥ पूर्ब्बोक्तैर्व्वचनैः कुमारीणामेव परि- णये विवाहशब्दवाच्यत्वं नतूढानाम् ॥ मनुः । ५ । १५१ — १५२ । “यस्मै दद्यात् पिता त्वेनां भ्राता वानुमते पितुः । तं शुश्रूषेत जीवन्तं संस्थितञ्च न लङ्घयेत् ॥ मङ्गलार्थं स्वस्त्ययनं यज्ञस्तासां प्रजापतेः । प्रयुज्यते विवाहेषु प्रदानं स्वाम्यकारणम् ॥” तत्रैव । १६० — १६३ । “मृते भर्त्तरि साध्वी स्त्री ब्रह्मचर्य्ये व्यवस्थिता । स्वर्गं गच्छत्यपुत्त्रापि यथा ते ब्रह्मचारिणः । अपत्यलोभात् या तु स्त्री भर्त्तारमतिवर्त्तते । सेहनिन्दामवाप्नोति पतिलोकाच्च हीयते ॥ नान्योत्पन्ना प्रजास्तीह न चाप्यस्य परिग्रहे । न द्वितीयश्च साध्वीनां क्वचिद्भर्त्तोपदिश्यते ॥ पतिं हित्वापकृष्टं स्वमुत्कृष्टं या निषेवते । निन्द्यैव सा भवेल्लोके परपूर्व्वेति चोच्यते ॥” लघुहारीतः । “स्वगोत्राद् भ्रस्यते नारी विवाहात् सप्तमे पदे । पतिगोत्रेण कर्त्तव्या तस्याः पिण्डोदकक्रिया ॥” मनुः । ९ । ४७ । “सकृदंशो निपतति सकृत्कन्या प्रदीयते । सकृदाहुर्द्ददानीति त्रीण्येतानि सतां सकृत् ॥” तत्रैव । ५९ — ६५ । “देवराद्वा सपिण्डाद्बा स्त्रिया सम्यक्नियुक्तया । प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥ विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत् पुत्त्रं न द्बितीयं कथञ्चन । द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्बिदः ॥ अनिर्वृ तं नियोगार्थं पश्यतो धर्म्मतस्तयोः ॥ विधवायां नियोगार्थे निर्व्वृते तु यथाविधि । गुरुषच्च स्नुषावच्च वर्त्तेयातां परस्परम् ॥ नियुक्तौ यौ विधिं हित्वा वर्त्तेयातान्तु कामतः । तावुभौ पतितौ स्यातां स्नुषाग-गुरुतल्पगौ ॥ नान्यस्मिन् विधवा नारी नियोक्तव्या द्बिजा- तिमिः । अन्यस्मिन् हि नियुञ्जाना धर्म्मं हन्युः सना- तनम् ॥ नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्त्यते क्वचित् । न विवाहविधाधुक्तं विधवावेदनं क्वचित् ॥” “न च विवाहविधायकशास्त्रे अन्येन पुरुषेण सह पुनर्व्विवाह उक्तः ॥” इति कुल्लूकः ॥ तत्रैव । ६८ — ७० । “ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् । नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः ॥ यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥ यथाविध्यभिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् । मिथोभजे दाप्रसवात् सकृत् सकृदृतातृतौ ॥” “आगर्भग्रहणात् सकृद्गमनोपदेशाच्च यस्मै वाग्दत्ता तस्यैवापत्यं भवति ।” इति कुल्लूक- भट्टः ॥ तत्रैव । ७१ । “न दत्त्वा कस्यचित् कन्यां पुनर्द्दद्याद्बिचक्षणः । दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥” तत्रैव । ७९ । “उन्मत्तं पतितं क्लीवमबीजं पापरोगिणम् । न त्यागोऽस्ति द्विषन्त्याश्च नच दायापवर्त्तनम् ॥” तत्रैव । ९७ । “कन्यायां दत्तशुल्कायां म्रियते यदिशुल्कदः । देवराय प्रदातव्या यदि कन्यानुमन्यते ॥” आश्वलायनगृह्यसूत्रम् । ४ । २ । २१ । तामुत्थापयेत् देवरः पतिस्थानीयः अन्तेवासी जरद्दासः । उदीर्ष्वनार्य्यभि जीवलोकम् ॥ अथ पत्नीमुत्थापयेत् कः देवरः पतिस्थानीयः स पतिस्थानीय इत्युच्यते । अनेन ज्ञायते पतिकर्त्तृकं कर्म्म पुंसवनादि पत्यसम्भवे देवरः कुर्य्यात् । अन्तेवासी शिष्यः स वा यो बहुकालं दास्यं कृत्वा वृद्धोऽभूत् स वा ॥ * ॥
पराशरः । ४ । २५ — २६ । “ज्येष्ठभ्राता यदा तिष्ठेत् आधानं नैव कारयेत् । अनुज्ञातस्तु कुर्व्वीत शङ्खस्य वचनं यथा ॥ नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥” पराशरः । १० । २५ — ३७ । “वन्दिग्राहेण या भुक्ता हत्वा वद्धाबलाद्- भयात् । कृत्वा सान्तपनं कृच्छ्रं शुध्येत् पराशरो- ऽब्रवीत् ॥ सकृद्भुक्ता तु या नारी नेच्छन्ती पापकर्म्मभिः । प्राजापत्येन शुद्ध्येत ऋतुप्रस्रवणेन तु ॥ पतत्थर्द्धं शरीरस्य यस्य भार्य्या सुरां पिबेत् । पतितार्द्धशरीरस्य निष्कृतिर्न विधीयते ॥ गायत्त्रीं जपमानस्तु कृच्छं सान्तपनञ्चरेत् । गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् । जारेण जनयेद्गर्भं गते त्यक्ते मृते पतौ ॥ तां त्यजेदपरे राष्ट्रे पतितां पापकारिणीम् । ब्राह्मणी तु यदागच्छेत् परपुंसा समन्विता ॥ सा तु नष्टा विनिर्द्दिष्टा न तस्या गमनं पुनः । कामान्मोहाद् यदा गच्छेत् त्यक्त्वा बन्धुं सुतान् पतिम् ॥ सा तु नष्टा परे लोके मानुषेषु विशेषतः । दशमे तु दिने प्राप्ते प्रायश्चित्तं न विद्यते ॥ दशाहं न त्यजेन्नारी त्यजेन्नष्टश्रुता तथा । भर्त्ता चैव चरेत्कृच्छ्रं कृच्छ्रार्द्धं चैव बान्धवाः ॥ तेषां भुक्त्वा च पीत्वा च अहोरात्रेण शुध्यति । ब्राह्मणी तु यदागच्छेत् परपुंसा विवर्ज्जिता ॥ गत्वा पुंसां शतं याति त्यजेयुस्तान्तु गोत्रिणः । पुंसो यदि गृहं गच्छेत् तदशुद्धं गृहं भवेत् ॥ पितृमातृगृहं यस्य जारस्यैव तु तद्गृहम् । उल्लिख्य तद्गृहं पश्चात् पञ्चगव्येन शुद्ध्यति ॥” बृहन्नारदीयम् । उद्बाहतत्त्वे । “समुद्रयात्रास्वीकारः कमण्डलुविधारणम् । द्विजानामसवर्णासु कन्यासूपयमस्तथा ॥ देवरेण सुतोत्पत्तिर्म्मधुपर्के पशोर्व्वधः । मांसदानं तथा श्राद्धे वानप्रस्थाश्रमस्तथा ॥ दत्तायाश्चैव कन्यायाः पुनर्द्दानं वरस्य च । दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ ॥ महाप्रस्थानगमनं गोमेधञ्च तथा मखम् । इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्म्मनीषिणः ॥” हेमाद्रिपराशरभाष्ययोरादित्यपुराणम् । “दीर्घकालं ब्रह्मचर्य्यं घारणञ्च कमण्डलोः । देवरेण सुतोत्पत्तिर्द्दत्ता कन्या प्रदीयते ॥ कन्यानामसवर्णानां विवाहश्च द्बिजातिभिः । आततायिद्विजाग्र्याणां धर्म्मयुद्धे निहिंसनम् ॥ वानप्रस्थाश्रमस्यापि प्रवेशो विधिदेशितः । वृत्तस्वाध्यायसाक्षेपमघसङ्कोचनन्तथा ॥ प्रायश्चित्तविधानञ्च विप्राणां मरणान्तिकम् । संसर्गदोषः पापेषु मधुपर्के पशोर्व्वधः ॥ दत्तौरसेतरेषान्तु पुत्त्रत्वेन परिग्रहः । शूद्रेषु दासगोपालकुलमित्रार्द्धशीरिणाम् ॥ भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः । ब्राह्मणादिषु शूद्रस्य पक्वतादिक्रियापि च ॥ भृग्वग्निमरणञ्चैव वृद्धादिमरणं तथा । एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः ॥ निवर्त्तितानि कर्म्माणि व्यवस्थापूर्ब्बकं बुधैः । समयश्चापि साधूनां प्रमाणं वेदवद्भवेत् ॥” याज्ञवल्क्यः । १ । ६५ । “सकृत् प्रदीयते कन्या हरंस्तां चौरदण्डभाक् । दत्तामपि हरेत् कन्यां श्रेयांश्चेद्वर आव्रजेत् ॥” गोतमः । “प्रतिश्रुत्याप्यधर्म्मसंयुक्ताय न दद्यात् ॥” वशिष्ठः । “कुलशीलविहीनस्य षण्डादिपतितस्य च । अपस्मारिविधर्म्मस्य रोगिणां वेशधारिणाम् । दत्तामपि हरेत्कन्यां सगोत्रोढां तथैवच ॥” वशिष्ठः उद्वाहतत्त्वे । “अद्भिर्व्वाचा प्रदत्तायां म्रियेतोर्द्धं वरो यदि । नच मन्त्रोपनीता स्यात् कुमारी पितुरेव सा ॥” उद्वाहतत्त्वे । यमः । “नोदकेन न वा वाचा कन्यायाः पतिरिष्यते । पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे ॥” उद्बाहतत्त्वे कात्यायनः । “अनेकेभ्योऽपि दत्तायामनूढायान्तु तत्र वै । वरागमश्च सर्व्वेषां दत्तं पूर्व्ववरो हरेत् ॥” नान्योत्पन्ना प्रजास्तीह नचाप्यन्यपरिग्रहे । न द्बितीयश्च साध्वीनां क्वचिद्भर्त्तोपदिश्यते ॥ व्यभिचारात्तु भर्त्तुः स्त्री लोके प्राप्नोति निन्दितम् । शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ॥” नारदसंहिता । “अज्ञातदोषेणोढाया निर्द्दोषा नान्यमाश्रिता । बन्धुभिः सा नियोक्तव्या निर्ब्बन्धुः स्वयमाश्रयेत् ॥ नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ अष्टौ वर्षाण्यपेक्षेत ब्राह्मणी प्रोषितं पतिम् । अप्रसूता च या नारी परतोऽन्यं समाश्रयेत् ॥ क्षत्रिया षट् समास्तिष्ठेत् अप्रसूता समा त्रयम् । वैश्या प्रसूता चत्वारि द्बे वर्षे इतरा वसेत् ॥ न शूद्रायाः सृतः कालः एष प्रोषितयोषि- ताम् । जीवति श्रूयमाणे तु स्यादेव द्बिगुणो विधिः ॥ अतोऽन्यगमने स्त्रीणां एषु दोषो न विद्यते ॥” ऋग्वेदे । १० । ४० । २ । “को वां शयुत्रा विधवेव देवरम् ॥” “तत्र दृष्टान्तं दर्शयति शयुत्रा शयने विधवेव यथा मृतभर्त्तृका नारी देवरं भर्त्तृभ्रातरं अभि- मुखीकरोति ।” “तथाच यास्कः क्वचिद्रात्रौ भवथः क्व दिवा क्वाभिप्राप्तिं कुरुथः क्व वसथः को वां शयने विधवेव देवरं देवरः कस्माद्द्वितीयो वर उच्यते । विधवा विधातृका भवति विधव- नाद्बा विधावनाद्वेति चर्म्मशिरा अपिवा धव इति मनुष्यनाम तद्वियोगाद्विधवा देवरो दीव्यतिकर्म्मा मर्य्यो मनुष्यो मरणधर्म्मा योषा यौतेराकुरुते सहस्थाने इति ॥” इति तद्भाष्ये सायणः ॥ एतेन पूर्व्वोल्लिखितप्रमाणपर्य्यालोचनेन एतत् प्रतीयते यत् विधवाया विवाहो नास्ति किन्तु देवरादिना नियोगोऽस्ति । सोऽपि कलौ क्षेत्र- जादिपुत्त्रवत् नास्त्येव । नष्टेमृते इत्यादि वचने अन्यवचनैरेकवाक्यतया पतिशब्दस्य पालका- र्थत्वं वाग्दानपत्यर्थत्वं वा दत्तामपि हरेत्कन्या- मित्यादिवचने दत्ताशब्दस्य वाग्दत्तापरार्थत्वञ्च एतच्च सर्व्वं सुधीभिर्भाव्यमिति ॥)