शब्दकल्पद्रुमः
विधानकं || क्ली व्यथा । इति शब्दरत्नावली ॥ (विधिः । यथा, कथासरित्सागरे । ४९ । १८० । “ततस्तुष्टो भदन्तोऽसौ तस्मायादित्यशर्म्मणे । ददौ सुलोचनामन्त्रमर्थितं सविधानकम् ॥”) विधानवेत्तरि, त्रि ॥