संस्कृत-शब्दकोशः

विधिदेशक विधु

विधिवत्

वाचस्पत्यम्

विधिवत् ||‍ अव्य० विधिमर्हति विधि + वति । विध्यनुसारे


शब्दकल्पद्रुमः

विधिवत् || व्य, यथाविधि । विध्यनुसारेण । यथा, —
“तोषयेत् सततं भार्य्यां विधिवत् पाणिपीडि- ताम् ॥” इति कालिकापुराणे १९ अध्यायः ॥ * ॥
अपि च । “सन्ध्यामुपास्य विधिवत् विल्वपत्राद्युपा- र्ज्जयेत् ॥” इति शिवरात्रिव्रतकथा ॥ * ॥
अन्यच्च । “पूजयेद्ब्रह्मविष्ण्वर्करुद्रवस्वात्मकं शिवम् । व्रतोपवासैर्विधिवत् श्रद्धवा च विमत्सरः ॥” इति मत्स्यपुराणे योगमाहात्म्यम् ४९ अध्यायः ॥ अपरञ्च । “इति नक्षत्रपुरुषमुपोष्य विधिवत् स्वयम् । सर्व्वान् कामानवाप्नोति विष्णुलोके महीयते ॥” इति तत्रैव ५१ अध्यायः ॥



Correction: