वाचस्पत्यम्
विधु || पु० व्यध—क । १ चन्द्रे २ कर्पूरे ३ विष्णौ मेदि० । ४ ब्रह्मणि शब्दर० । ५ शङ्करे ६ राक्षसे विश्वः । ७ वायौ ८ युधि च संक्षिप्नसा० ।
शब्दकल्पद्रुमः
विधुः || पुं, (विध्यति विरहिणं विध्यते राहुणेति वा । व्यध ताडे + “पॄभिदिव्यधीति ।” उणा० १ । २४ । इति कुः ।)
चन्द्रः । (यथा, —
“पिक ! विधुस्तव हन्ति समं तम- स्त्वमपि चन्द्रविरोधिकुहूरवः । तदुभयोरनिशं हि विरोधिता कथमहो समता मम तापने ॥” * ॥
विध्यति असुरानिति ।)
विष्णुः । कर्पूरः । इति मेदिनी । धे, १६ ॥ ब्रह्मा । इति शब्द- रत्नावली ॥ राक्षसः । इति विश्वः ॥ आयुधः । वायुः । इति संक्षिप्तसारोणादिवृत्तिः ॥ * ॥
चन्द्रस्य द्वादशावस्थास्तत्फलादिश्च यथा, —
“चन्द्रस्य द्वादशावस्था भवन्ति शृणु ता अपि । त्रिषु त्रिषु च ऋक्षेषु अश्विन्यादि वदाम्यहम् ॥ प्रवासस्थं पुनर्नष्टं मृतावस्थं जयावहम् । हास्यावस्थं क्रीडावस्थं प्रमोदावस्थमेव च । विषादावस्थभोगस्थे ज्वरावस्थं व्यवस्थितम् ॥ कम्पावस्थं सुस्थावस्थं द्वादशावस्थगं भवेत् ॥ प्रवासो हानिर्मृत्युश्च जयो हासो रतिः सुखम् । शोको भोगो ज्वरः कम्पः सुस्थावस्थाक्रमात्- फलम् ॥ जन्मस्थः कुरुते तृप्तिं द्वितीये नास्ति निर्वृतिः । तृतीये राजसम्मानं चतुर्थे कलहागमः ॥ पञ्चमेन मृगाङ्केण स्त्रीलाभो वै तथा भवेत् ॥ धनधान्यागमः षष्ठे रतिः पूजा च सप्तमे । अष्टमे प्राणसन्देहो नवमे कोषसञ्चयः ॥ दशमे कार्य्यनिष्पत्तिर्ध्रुवमेकादशे जयः । द्वादशेन शशाङ्केन मृत्युरेव न संशया ॥” इति गारुडे । ६१ । ३ — ९ ॥ * ॥
चन्द्रस्य क्षयवृद्धिकारणम् यथा, — ब्रह्मोवाच । “राका चानुमती चैव द्विविधा पूर्णिमा मता । सिनीवाली कुहुश्चैव अमावास्या द्बिधैव तु ॥ अमा नाम रवे रश्मिश्चन्द्रलोके प्रतिष्ठिता । यस्मात् सोमो वसत्यस्याममावासी ततः स्मृता ॥ पूर्ब्बोदितकलाभिन्नपौर्णमास्या निशाकरे । पूर्णिमानुमती ज्ञेया पश्चास्तमितभास्करे ॥ यस्मात्तामनुमन्यन्ते देवताः पितृभिः सह । तस्मादनुमती नाम पूर्णिमा प्रथमा स्मृता ॥ यदा चास्तमिते सूर्य्ये पूर्णचन्द्रस्य चोद्गमः । युगपत् सोत्तरा रागस्तदानुमतिपूर्णिमा ॥ राकान्तामनुमन्यन्ते देवताः पितृभिः सह । रञ्जनाच्चैव चन्द्रस्य राकेति कवयोऽब्रुवन् ॥ सिनीवालीप्रमाणन्तु क्षीणशेषो निशाकरः । अमावास्यां विशत्यर्कं सिनीवाली ततः स्मृता ॥ कुहेति कोकिलेनोक्तो यः कालस्तु समाप्यते । तत्कालसंज्ञा त्वेषा वै अमावास्या कुहूः स्मृता । अनुमत्याशवाः कार्य्या सिनीव्याल्याः कुहूं विना । एतासां विरलः कालः कुमात्रति कुहूः स्मृता ॥ कलाः षोडश सोमस्य शुक्ले वर्द्धयते रविः । अमृतेनामृतं कृष्णे पीयते दैवतैः क्रमात् ॥ प्रथमां पिबते वह्निर्द्वितीयां पवनः कलाम् । विश्वेदेवास्तृतीयान्तु चतुर्थीन्तु प्रजापतिः ॥ पञ्चमीं वरुणश्चापि षष्ठीं पिबति वासवः । सप्तमीमृषयो दिव्या वसवोऽष्टौ तथाष्टमीम् ॥ नवमीं कृष्णपक्षस्य पिबतीन्द्रः कलामपि । दशमीं मरुतश्चापि रुद्रा एकादशीं कलाम् । द्वादशीन्तु कलां विष्णुर्धनदश्च त्रयोदशीम् । चतुर्द्दशीं पशुपतिः कलां पिबति नित्यशः । ततः पञ्चदशीञ्चैव पिबन्ति पितरः कलाम् ॥ कलावशिष्टो निष्पीतः प्रविष्टः सूर्य्यमण्डलम् । अमायां विशते रश्मौ अमावासी ततः स्मृता ॥ पूर्ब्बाह्णे विशते चार्कं मध्याह्रे तु वनस्पतिम् । अपराह्णे विशत्यप्सु स्वयोनिवारिसम्भवः ॥ आपः प्रविष्टः सोमस्य शेषया कलयैकया । तृणगुल्मलतावृक्षान्निष्पादयति चौषधीः ॥ तमोषधिं स्थितं गावश्चरन्त्यापः पिबन्ति च । तदङ्गानुगतं गोभ्यः क्षारत्वमुपगच्छति ॥ तत्क्षीरममृतं भूत्वा मन्त्रभूतं द्बिजातयः । स्वाहाकारवषट्कारैर्जुह्वन्त्याहुतयः क्रमात् ॥ हुतमग्निषु देवाय पुनः सोमं विवर्द्धयेत् । एवं संक्षीयते सोमः क्षीणश्चाप्यायते पुनः । तस्मात् सूर्य्यः शशाङ्क्षस्य क्षयवृद्धिविधेर्व्विभुः ॥” इति देवीपुराणे चन्द्रक्षयवृद्धिः ॥ * ॥
ब्रह्मोवाच । “यदयं वदते लोको वालिशत्वान्महामते । तदहं संप्रवक्ष्यामि चन्द्रसूर्य्योपरागिकम् ॥ यदि सत्यमयं ग्रस्तस्तेजोराशिर्दिवाकरः । तत्कथं नोदरस्थेन राहुर्न भस्मसात् कृतः ॥ अथवा राहुणाक्रम्य शत्रुवक्त्रं प्रवेशितः । तत् कथं दशनैस्तीक्ष्णैः शतधा न विखण्डितः ॥ विमुक्तश्च पुनर्दष्टस्तथैवाखण्डमण्डलः । न चास्यापहृतं तेजो न स्थानादपसारितः ॥ यदि वा ह्येष निष्पीतः कथं दीप्रतरोऽभवत् । तस्मान्न तेजसां राशी राहोर्वक्त्रं गमिष्यति ॥ भक्ष्यार्थं सर्व्वदेवानां सोमः सृष्टः स्वयम्भुवा । तत्रस्थममृतञ्चापि सम्भूतं सूर्य्यतेजसा ॥ पिबन्त्यम्बुमयं देवाः पितरश्च स्वधामृतम् । त्रयञ्च त्रिशतञ्चैव त्रयस्त्रिंशत्तथैव च ॥ त्रयश्च त्रिसहस्राश्च देवाः भोमं पिबन्ति ये । राहोरप्यमृतं भाग्यं पुरा सृष्टं स्वयम्भु वा ॥ तस्मात्तद्राहुरागत्य पातुमिच्छति पर्व्वसु । उद्धृत्य पार्थिवीं छायां मद्राकारान्तमोमयः ॥ पातुमिच्छन् ततश्चेन्दुमाच्छादयति छायया । शुक्ले च चन्द्रमभ्येति कृष्णे पर्व्वणि भास्करम् ॥ सूर्य्यमण्डलसंस्थन्तु चन्द्रमेव जिघांसति । तस्मात् पिबति तं राहुस्तनुमस्याविनाशयन् ॥ अविहिंसन् यथा पद्मं पिबति भ्रमरो मधु । चन्द्रस्थममृतं तद्वदभेदाद्राहुरश्नुते ॥ चन्द्रकान्तो मणिर्यद्वत्तुहिनं क्षरते क्षणात् । क्षरन्नपि न हीयेत तेजसा नैव मुच्यते ॥ यथा सूर्य्यमणिः सूर्य्यादुत्पाट्य पावकं शुभम् । न भवत्यङ्गहीनोऽपि तेजसा नैव मुच्यते ॥ एवं चन्द्रश्च सूर्य्यश्च छादितावपि राहुणा । स्वतेजसा नं मुच्येत नाङ्गहीनौ बभूवतुः ॥ पर्व्वखथ च चन्द्रस्य माणिक्यकलसाकृतिः । सोमो दैवतसंयोगात् छायायोगाच्च पार्थिवात् । राहोश्च वरलब्धाद्वै प्रक्षरेदमृतं शशी ॥ स्वदोहकाले संप्राप्ते वत्सं दृष्ट्वा च गौर्यथा । स्वाङ्गादेव क्षरेत् क्षीरं तथेन्दुः क्षरतेऽमृतम् । पितेव सूर्य्यो देवानां सोमो मातेव लक्ष्यते ॥ यथा मातुः स्तनं पीत्वा जीवन्ते सर्व्वजन्तवः । पीत्वामृतं तथा सोमात् तृप्यन्ते सर्व्वदेवताः ॥ सम्भृ तं सर्व्वयोगेषु तथायं क्षरते शशी । तं क्षरन्तं यथाभागमुपजीवन्ति देवताः ॥ तस्मिन् काले समभ्येति राहुरप्यवकर्षति । सर्व्वमर्हन्ति भागञ्च पादं पादार्द्धमेव च ॥ आक्रम्य पार्थिवी छाया यावती चन्द्रमण्डलम् । स्मृतः स भागो राहोस्तु देवभागास्तु शेषकाः ॥ तृप्तिं विधाय देवानां राहोः पर्व्वगतस्य च । चन्द्रो न क्षयमायाति तेजसा नैव मुच्यते ॥ तिथिभागाश्च यावन्तः पुनन्त्यर्कं प्रमाणतः । सर्व्वच्छायास्थितः कालस्तावानेव प्रकीर्त्तितः ॥ अतो राहुभुजः सोमः सोमाद्वृद्धिं दिवाकरः । पर्व्वकाले स्थितिस्त्वेवं विपरीताः पुनः पुनः ॥ अतश्छादयते राहुरभ्रवच्छशिभास्करौ । राहुरभ्रकसंस्थानः सोममाच्छाद्य तिष्ठति ॥ उद्धृत्य पार्थिवीं छायां धूममेघ इवोत्थितः । चन्द्रस्य यदवस्तब्धं राहुणा भास्करस्य च ॥ नाम्नावखण्डितं तस्य कैवल्यं व्यामलीकृतम् । कर्द्दमेन यथा वस्त्रं शुक्लमप्युपहन्यते ॥ एकोद्देशेऽथ सर्व्वद्या राहुणा चन्द्रमास्तथा । प्रक्षालितं तदेवेह पुनः शुक्लतरं भवेत् ॥ राहुयुक्तं भवेत्तद्वन्निर्म्मलं चन्द्रमण्डलम् । राहुणा छादितौ वापि दृष्ट्वा चन्द्रदिवाकरौ ॥ विप्राः शान्तिपरा भूत्वा पुनराप्याययन्ति तम् । एवं न गृह्यते सूर्य्यश्चन्द्रमास्तत्र गृह्यते ॥ अबुधास्तं न पश्यन्ति मानुषा मांसचक्षुषः । जगत्सम्मोहनं चैतत् ग्रहणं चन्द्रसूर्य्ययोः ॥” इत्याद्ये देवीपुराणे ग्रहणविकल्पः ॥ * ॥
विधोर्देवपित्राद्यन्नकारणत्वं राजयक्ष्मादिकार- णत्वञ्च कालिकापुराणे २० । २१ अध्याययोर्द्रष्ट- व्यम् ॥ * ॥
(कर्त्तरि, त्रि । यथा, ऋग्वेदे । १० । ५५ । ५ । “विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार ॥” “विधुं विधातारं सर्व्वस्य युद्धादेः कर्त्तारं विपूर्ब्बो दधातिः करोत्यर्थे ।” इति तद्भाष्ये सायणः ॥)