संस्कृत-शब्दकोशः

विधुप्रिया विधुरा

विधुर

वाचस्पत्यम्

विधुर ||‍ त्रि० विगता धूर्यस्य अच्समा० । १ विश्लेष्टे अमरः । २ विकले च मेदि० । विगता धूः । ३ वैकल्ये ४ विश्लेषे च न० त्रिका० । ५ रमालायां स्त्री मेदि० ।


शब्दकल्पद्रुमः

विधुरं || क्ली (विगता धूर्भारो यस्मात् । समासे अः ।)
प्रविश्लेषः । इत्यमरः ॥ कैवल्यम् । इति त्रिकाण्डशेषः ॥ (प्रत्यवायः । कष्टम् । यथा, किरातटीकायां मल्लिनाथधृतवैजयन्ती । “विधुरं प्रत्यवाये स्यात् कष्टविश्लेशयोरपि ॥” तथा च किराते । २ । ७ । “विधुरं किमतः परं परै- रवगीतां गमिते दशामिमाम् । अवसीदति यत् सुरैरपि त्वयि सम्भावितवृत्ति पौरुषम् ॥”)


शब्दकल्पद्रुमः

विधुरः || त्रि (विगता धूः कार्य्यभारो यस्मात् । ऋक्पूरित्यः ।)
विकलः । इति मेदिनी । रे, २१६ ॥ (यथा, कुमारे । ४ । ३२ । “तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् । विधुरां ज्वलनातिसर्ज्जनात् ननु मां प्रापय पत्युरन्तिकम् ॥”)



Correction: