वाचस्पत्यम्
विधूत || त्रि० वि + धू—क्त । १ कम्पिते २ थक्ते च हेमच० । “विधूतपापास्ते यान्ति” ब्रह्मलोकमनाजयम” स्मृतिः ।
शब्दकल्पद्रुमः
विधूतं || त्रि (वि + धू + क्तः ।)
कम्पितम् । (यथा, कलाविलासे । २ । २८ । “तं वदति सोऽन्यदृष्टिः सभ्रूभङ्गं विधूतहस्ताग्रः । वञ्चकवचनः पापो वृत्तिक्षीणः कुतोऽयमा- यातः ॥”)
त्यक्तम् । इति हेमचन्द्रः ॥ (यथा, महागण- पतिस्तोत्रे । १ । “योगं योगविदां विधूतविविधव्यासङ्गशुद्धाशय- प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासि- नाम् ॥”)