संस्कृत-शब्दकोशः

विधूति विधूनित

विधूनन

शब्दकल्पद्रुमः

विधूननं || क्ली (वि + धू + णिच् + ल्युट् । नुक् च ।)
कम्पनम् । तत्पर्य्यायः । विधुवनम् २ । इत्य- मरः । ३ । २ । ४ ॥ विधुननम् ३ । इति शब्द- रत्नावली ॥ (यथा, साहित्यदर्पणे । ३ । १४२ । “केशस्तनाधरादीनां ग्रहे हर्षेऽपि सम्भ्रमात् । प्राहुः कुट्टमितं नाम शिरःकरविधूननम् ॥”)



Correction: