शब्दकल्पद्रुमः
विधेयता || स्त्री (विधेयस्य भावः । विधेय + तल् ।)
विधेयत्वम् । विधिजन्यबोधविषयत्वम् । यथा । यथा ब्रह्मवधादिषु पापस्य निषिद्धतयोपयुक्त- बाह्मणादिज्ञाने द्वैगुण्यं तथा गङ्गास्नानादिषु पुण्यस्य विधेयतावच्छेदकगङ्गादिज्ञाने द्वैगुण्यम् । इति प्रायश्चित्ततत्त्वम् ॥ (अधीनता । यथा, किराते । ११ । ३३ । “परवानर्थसंसिद्धौ नीचवृत्तिरपत्रपः । अविधेयेन्द्रियः पुंसां गौरिवैति विधेयताम् ॥”)