संस्कृत-शब्दकोशः

विनम्रक विनयग्राहिन्

विनय

वाचस्पत्यम्

विनय ||‍ पु० वि + नी—भावे अच् । १ शिक्षायां । २ प्रणामे ३ अ- नुमये च मेदि० । वि + नी—कर्त्तरि अच् । ३ विनययुक्ते, जने, विनयश्च शास्त्रज्ञानजन्यसंस्कारनेदः इन्द्रियसंयमा वा । ४ निभृते, ५ क्षिप्ते, ६ जितेन्द्रिये च । ७ वणिग्जने पु० अमरः । ८ दण्डे व्यव० त० । ९ वाट्यालके स्त्री वेदि० ।


शब्दकल्पद्रुमः

विनयः || त्रि बणिक् । क्षिप्तः । निभृतः । विजिते- न्द्रियः । इत्यजयपालः ॥ (विशेषेण नयतीति । नी + अच् । विशेषेण प्रापकः । पृथक्कर्त्ता । यथा, ऋग्वेदे । २ । २४ । ९ । “स संनयः स विनयः पुरोहितः समुष्टुतः सयुधि ब्रह्मणस्पतिः ॥” “विनयः संगतानां विविधं नेता पृथक्कर्त्ता स एव ।” इति तद्भाष्ये सायणः ॥)


शब्दकल्पद्रुमः

विनयः || पुं, (वि + नी + अच् ।)
शिक्षा । (यथा, रघुः । १ । २४ । “प्रजानां विनयाधानाद्रक्षणाद्भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः ॥”)
प्रणतिः । इति मेदिनी । ये, १०५ ॥ * ॥
(यथा, “जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥” इत्युद्भटः ॥)
अथ विनयप्रशंसा । “वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् । तेभ्यो हि शिक्षेत् विनयं विनीतात्मा हि नित्यशः ॥ समग्रां वशगां कुर्य्यात् पृथिवीन्नात्र संशयः । बहवोऽविनयाद्भ्रष्टा राजानः सपरिच्छदाः । वनस्थाश्चैव राज्यानि विनयात् प्रतिपेदिरे ॥” इति मत्स्यपुराणे १८९ अध्यायः ॥ * ॥
(विशिष्टो नयः ।)
दण्डः । यथा । “यत्तु । ‘पूर्ब्बमाक्षारयेद्यस्तु नियतं स्यात् स दोष- भाक् । पश्चाद्यः सोऽप्यसत्कारी पूर्व्वे तु विनयो गुरुः ॥’ इति नारदवचनम् ॥ तत्पूर्व्वापेक्षया परस्याधिकवाक्पारुष्योत्पा- दकस्यापि स्वल्पदण्डविधायकम् । युगपत्संप्रव- र्त्तने अधिकदण्डाभावमाह स एव । ‘पारुष्ये साहसे चैव युगपत्संवर्त्तयोः । विशेषश्चेन्न लभ्येत विनयः स्यात् समस्तयोः ॥’ विनयो दण्डः ।” इति व्यवहारतत्त्वम् ॥



Correction: