शब्दकल्पद्रुमः
विनष्टिः || स्त्री विनाशः । इति विपूर्ब्बनशधातोर्भावे क्तिप्रत्ययेव निष्पन्नमिति । इति सिद्धान्त- कौमुदी ॥ (यथा, भागवते । ३ । १ । २० । “तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवह्निसंश्रयम् । संस्पर्द्धया जग्धमथानुशोचन् सरस्वतीं प्रत्यगियाय तूष्णीम् ॥”)