वाचस्पत्यम्
विनाश || पु० वि + नश अञ् । १ ध्वंसे २ अदर्शने च ।
शब्दकल्पद्रुमः
विनाशः || पुं, (विनशनमिति । वि + नश + घञ् ।)
विनशनम् । (यथा, गीतायाम् । २ । १७ । “अविनाशि तु तद्विद्धि येन सर्व्वमिदं ततम् । विनाशमव्ययस्थास्य न कश्चित् कर्त्तुमर्हति ॥”)
तत्पर्य्यायः । अदर्शनम् २ । इत्यमरः ॥ छञ्छट् ३ । यथा, श्रीभागवते । “एषा षोरतमा सन्ध्या लोकछञ्छट्करी विभो ॥” छञ्छडित्यव्ययं विनाशे वर्त्तते । इति श्रीधर- स्वामी ॥