शब्दकल्पद्रुमः
विनाशी || [न्] त्रि, विनाशकरणशीलः । विपूर्ब्ब- नशधातोर्णिन्प्रत्ययेन निष्पन्नः ॥ (यथा, महा- भारते । १२ । १०७ । ११ । “लोभमेको हि वृणुते ततोऽमर्षमनन्तरम् । तौ क्षयव्ययसंयुक्तावन्योन्यञ्च विनाशिनौ ॥” यथा च मनौ । १ । २७ । “अण्व्यो मात्राविनाशिन्यो दशार्द्धानान्तु याः स्मृताः । ताभिः सार्द्धमिदं सर्व्वं सम्भवत्यनुपूर्ब्बशः ॥”)