संस्कृत-शब्दकोशः

विनिर्धूत विनिर्म्मोक

विनिर्भय

वाचस्पत्यम्

विनिर्भय ||‍ त्रि० विनिर्गतं भयं यस्मात् । १ भयशून्ये साध्यदेवगणभेदे पु० वह्निपु० ।


शब्दकल्पद्रुमः

विनिर्भयः || पुं, (विशेषेण निर्नास्ति भयं यस्य ।)
साध्यगणविशेषः । यथा, —
“मनो मन्ता तथा शानो नरो यानश्च वीर्य्य- वान् । विनिर्भयो नयश्चैव हंसो नारायणो वृषः । प्रभुश्चेति समाख्याताः साध्याः द्वादश पौर्व्विकाः ॥” इति वह्निपुराणे काश्यपीयवंशः ॥ भयरहितश्च ॥



Correction: