वाचस्पत्यम्
विनीत || त्रि० वि + नी—क्त । १ विनययुक्ते २ कृतदण्डे ३ क्षिप्ते अमरः ४ अपनीते ५ निभृते च । ६ जितेन्द्रिये ७ हृते च मेदि० । ८ सुशिक्षिताश्वे अमरः । ९ मदनवृक्षे च पु० १० शिक्षितवृषादौ राजनि० ११ वणिजि पु० मेदि० ।
शब्दकल्पद्रुमः
विनीतः || त्रि (वि + नी + क्तः ।)
विनयान्वितः । विनयः शास्त्रतः संस्कारः इन्द्रिययमो वा । तत्पर्य्यायः । निभृतः २ प्रश्रितः ३ । इत्यमर- भरतौ ॥ (यथा, रघुवंशे । १४ । ७५ । “तपस्विसंसर्गविनीतसत्त्वे तपोवने वीतभया वसास्मिन् ॥”)
जितेन्द्रियः । (यथा, तन्त्रसारे । “शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेश- वान् ॥”)
अपनीतः । (यथा, महाभारते । ७ । ११० । ५५ । “विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ॥”)
हृतः । इति मेदिनीकारहेमचन्द्रौ ॥ क्षिप्तः । इत्यजयपालः ॥ कृतदण्डः । इति स्मृतिः ॥ (अनुद्धतः । यथा, मनौ । ९ । ४१ । “तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ॥”)
शब्दकल्पद्रुमः
विनीतः || पुं, (वि + नी + क्तः ।)
सुवहाश्वः । तत्पर्य्यायः । साधुवाही २ । इत्यमरः । सुष्ठु- वाहनशीलकः ३ । इति शब्दरत्नावली ॥ (यथा, महाभारते । ७ । ११० । ५६ । “तांस्तदा रूप्यवर्णाभान् विनीतान् शीध्र- गामिनः ॥”)
बणिक् । इति मेदिनी । ते, १५४ ॥ दमनकवृक्षः । (अस्य पर्य्यायो यथा, —
“उक्तो दमनको दान्तो मुनिपुत्त्रस्तपोधनः । गन्धोत्कटे ब्रह्मजटो विनीतः फलपत्रकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शिक्षितवृषभादिः । इति राजनिर्घण्टः ॥