वाचस्पत्यम्
विनीय || पु० वि + नी—क्यप् । १ कल्के २ पापे च ल्यप् शिक्षयित्वेत्याद्यर्थे अव्य० ।
शब्दकल्पद्रुमः
विनीयः || पुं, (वि + नी + “विपूयविनीयजित्येति ।” ३ । १ । ११७ । क्यप्प्रत्ययेन निपातितः ।)
कल्कः । इति मुग्धबोधव्याकरणम् ॥ (यथा, —
“पृक्कातुरुष्कलघुलाभतया विनीयः ।” इति वैद्यकचक्रपाणिसंग्रहे वातव्याधौ एला- तैले ॥)
पापम् । इति सिद्धान्तकौमुदी ॥