वाचस्पत्यम्
विनेतृ || त्रि० वि + नी—तृच् । १ शिक्षके २ नृपे पु० मेदि० ।
शब्दकल्पद्रुमः
विनेता || [ऋ] पुं, (वि + नी + तृच् ।)
राजा । आदेशके, त्रि । इति मेदिनी । ते, १५६ ॥ (यथा, रघुवंशे । १४ । २३ । “तेनास लोकः पितृमान् विनेत्रा ॥” गुरुः । शिक्षकः । यथा, महाभारते । ११ । २६ । “अर्ज्जुनस्य विनेतारमाचार्य्यं सात्यकेस्तथा । तं पश्य पतितं द्रोणं कुरूणां द्बिजसत्तमम् ॥” यथाच रघुवंशे । ८ । ९१ । “स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज्ज मुनिम् ॥”)