संस्कृत-शब्दकोशः

विनेतृ विनोक्ति

विनेय

वाचस्पत्यम्

विनेय ||‍ त्रि० वि + नी—यत् । १ शिक्षणीये २ प्राप्ये च ।


शब्दकल्पद्रुमः

विनेयः || त्रि (वि + नी + यत् ।)
नेतव्यः । विपूर्ब्ब- नीधातोयप्रत्ययेन निष्पन्नः ॥ दण्डनीयः । यथा, “ज्योतिर्ज्ञानं तथोत्पातमविदित्वा तु ये नृणाम् । श्रावयन्त्यर्थलोभेन विनेयास्तेऽपि यत्नतः ॥” विनेयाः दण्डनीयाः । इति ज्योतिस्तत्त्वम् ॥



Correction: