संस्कृत-शब्दकोशः

विनोद विन्दुचित्रक

विन्दु

शब्दकल्पद्रुमः

वि(बि)न्दुः || त्रि (वेत्ति तच्छीलः । विदज्ञाने + “बिन्दुरिच्छुः ।” ३ । २ । १६९ । इति उप्रत्ययो लुमागमश्च निपात्यते ।)
ज्ञाता । इत्यमरः ॥ दाता । इत्यजयपालः ॥ वेदितव्यः । इति शब्दरत्नावली ॥


शब्दकल्पद्रुमः

वि(बि)न्दुः || पुं, (बिदि अवयवे + बाहुलकादुः ।)
जलकणा । तत्पर्य्यायः । पृषत् २ पृषतः ३ विप्रुट् ४ । इत्यमरः ॥ पृषन्ति ५ विप्लट् ६ । इति तट्टीका ॥ (यथा, पञ्चतन्त्रे । “जलबिन्दुप्रपातेन क्रमशः पूर्य्यते घटः । स हेतुः सर्व्वशास्त्रस्य धर्म्मस्य च धनस्य च ॥”)
दन्तक्षतविशेषः । भ्रुवोर्मध्यम् । रूपकार्थ- प्रकृतिः । इति मेदिनी । दे, १०-११ ॥ अनुस्वारः । यथा । “बिन्दुद्बिबिन्दुमात्रौ वर्णौ क्रमान्नुवी संज्ञौ स्तः ।” इति मुग्धबोधव्याकरणम् ॥ अपि च । “शिवो वह्निसमायुक्तो वामाक्षिबिन्दुभूषितः । एकाक्षरो महामन्त्रः श्रीसूर्य्यस्य प्रकीर्त्तितः ॥” इति सूर्य्यकवचम् ॥ बन्दूत्पत्तिर्यथा, —
“सच्चिदानन्दविभवात् सकलात् परमेश्वरात् । आसीच्छक्तिस्ततो नादो नादाद्बिन्दुसमुद्भवः ॥” इति सारदातिलके १ पटलः ॥ अपि च । “आसीद्बिन्दुस्ततो नादो नादाच्छक्तिः समुद्भवा । नादरूपा महेशानी चिद्रूपा परमा कला ॥ नादाच्चैव समुत्पन्नः अर्द्धबिन्दुर्महेश्वरि । सार्द्धत्रितयबिन्दुभ्यों भुजङ्गी कुलकुण्डली ॥” इति कुब्जिकातन्त्रे १ पटलः ॥ “बिन्दुर्नादो बीजमिति तस्य भेदाः समीरिताः । बिन्दुः शिवात्मको बीजं शक्तिर्नादस्तयोर्मिथः ॥ समवायः समाख्यातः सर्व्वागमविशारदैः ॥” इति सारदातिलकः ॥ अन्यच्च । “बिन्दुः शिवात्मकस्तत्र बीजं शक्त्यात्मक स्मृतम् । तयोर्योगे भवेन्नादस्ताभ्यो जातास्त्रिशक्तयः ॥” इति क्रियासारः ॥



Correction: