शब्दकल्पद्रुमः
वि(बि)न्दुसरः || [स्] क्ली, (बिन्दुनामक सरः ।)
सरोवरविशेषः । यथा, —
“अभ्युत्तरेण कैलासं शिवं सर्व्वौषधिं गिरिम् । गौरन्तु पर्व्वतश्रेष्ठं हरितालमयं प्रति ॥ हिरण्यशृङ्गः सुमहान् दिव्यौषधिमयो गिरिः । तस्य पादे महद्दिव्यं सरः काञ्चनसन्निभम् ॥ रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः । गङ्गार्थे स तु राजर्षिरुवास बहुलाः समाः ॥ दिव्यं यास्यन्ति मे पूर्ब्बे गङ्गातोयपरिप्लुताः । तत्र त्रिपथगा देवी प्रथमन्तु प्रतिष्ठिता ॥ सोमपादात् प्रसूता सा सप्तधा प्रतिभज्यते । यूपा मणिमयास्तत्र चितयश्च हिरण्मयाः ॥ तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रः सुरगणैः सह । दिव्यश्छायापथस्तत्र नक्षत्राणान्तु मण्डलम् ॥ दृश्यते भास्वरा रात्रौ देवी त्रिपथगा तु सा । अन्तरीक्षं दिवञ्चैव भावयित्वा भुवं गताः ॥ भवस्य स्वाङ्के पतिता संरुद्धा योगमायया । तस्या ये बिन्दवः केचित् क्षुब्धायाः पतिता भुवि । कृतस्तु तैर्बिन्दुसरस्ततो बिन्दुसरः स्मृतम् ॥” इति मात्स्ये । १२० । २७ — ३३ ॥