वाचस्पत्यम्
विपञ्ची || स्त्री वि + पचि—अच् गौरा० ङीष् । १ वीणायाम् अमरः । २ केलौ मेदि० । स्वार्थे क ह्रस्वः । विपञ्चिका तत्रैव ।
शब्दकल्पद्रुमः
विपञ्ची || स्त्री (वि + पञ्च + अच् । स्त्रियां गौरा- दित्वात् ङीष् ।)
वीणा । इत्यमरः ॥ (यथा, कथासरित्सागरे । ४९ । २० । “अहं ह्येतद्विजानामि तन्त्रीझङ्कारलक्षणैः । इत्युक्त्वा गुणशर्म्माङ्कात्तां विपञ्चीं मुमोच सः ॥”)
केलिः । इति मेदिनी । चे, १७ ॥