संस्कृत-शब्दकोशः

विपञ्ची विपणि

विपण

वाचस्पत्यम्

विपण ||‍ पु० वि + पण—घञर्थे क । विक्रये अमरः ।


शब्दकल्पद्रुमः

विपणः || पुं, (वि + पण व्यवहारे + घञ् । संज्ञा- पूर्ब्बकत्वात् न वृद्धिः ।)
विक्रयः । इत्यमरः ॥ (यथा, मनौ । ३ । १५२ । “विपणेन च जीवन्तो वर्ज्ज्याःस्युर्हव्यकव्ययोः ॥” विशेषेण पण्यतेऽस्मिन्निति । विपणिः । यथा, महाभारते । १२ । ६९ । ५३ । “विशालान् राजमार्गांश्च कारयेत नराधिपः । प्रपाश्च विपणांश्चैव यथोद्देशं समादिशेत् ॥”)



Correction: