संस्कृत-शब्दकोशः

विपत् विपथ

विपत्ति

वाचस्पत्यम्

विपत्ति ||‍ स्त्री वि + पद—क्तिन् । आपदि अमरः । २ नाशे ३ यातनायाञ्च मेदि० । “यस्मिन् राशौ गते भानौ विपत्तिं यान्ति मानवाः” म० त० ।


शब्दकल्पद्रुमः

विपत्तिः || स्त्री (वि + पद + क्तिन् ।)
आपत् । विपत् । इत्यमरः ॥ यातना । इति मेदिनी । ते, १५९ । यथा, — भृगुरुवाच । “श्रुतं सर्व्वं सुरश्रेष्ठ मारोदीर्व्वचनं शृणु । न कातरो हि नीतिज्ञो विपत्तौ च कदाचन ॥ सम्पत्तिर्व्वा विपत्तिर्व्वा नश्वरा स्वप्नरूपिणी । पूर्ब्बस्वकर्म्मायत्ता च स्वयं कर्त्ता तयोरपि ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३४ अध्यायः ॥ विनाशः । यथा, —
“यस्मिन् राशिगते भानौ विपत्तिं यान्ति मानवाः । तेषां तत्रैव कर्त्तव्या पिण्डदानोदकक्रिया ॥” इति मलमासतत्त्वम् ॥



Correction: