वाचस्पत्यम्
विपन्न || त्रि० वि + पद—क्त । १ विपद्युक्ते मेदि० २ नष्टे च शब्दच० । ३ सर्पे पुंस्त्री० मेदि० स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
विपन्नः || त्रि (वि + पद + क्तः ।)
विपदाक्रान्तः । इति मेदिनी । ने, १३४ ॥ नष्टः । इति शब्द- रत्नावली ॥
शब्दकल्पद्रुमः
विपन्नः || पुं, सर्पः । इति मेदिनी । ने, १३४ ॥